________________ श्रीआचाराङ्ग नियुक्तिश्रीशीला० वृत्तियुतम् श्रुतस्कन्धः१ // 250 // सम्यक्त्व समुद्यच्छेः, संयमानुष्ठानोद्योगसम्यग्विदध्या इतियावद्, अथवाऽष्टप्रकारं कारिषड्वर्गवा विषयकषायान् वा पराक्रमस्वेति, श्रुतस्कन्ध:१ द्वितीयमध्ययनं इतिरधिकारपरिसमाप्तौ, ब्रवीमीति पूर्ववत् / स एवं संयमानुष्ठाने पराक्रममाणस्त्यक्तपरिग्रहाग्रहयोगो मुनिः किंभूतो भवतीत्याह लोकविजयः, तस्य हि त्यक्तगृहगृहिणीधनहिरण्यादिपरिग्रहस्य निष्किञ्चनस्य संयमानुष्ठानं कुर्वतः साधोः कदाचिन्मोहनीयोदयादरतिराविः / षष्ठोद्देशकः स्यात्, तामुत्पन्नां संयमविषयां न सहते न क्षमते, कोऽसौ?- विशेषेणेरयति- प्रेरयति अष्टप्रकारं कारिषड्वर्गं वेति वीरः- सूत्रम् 100 रूक्षसेविशक्तिमान्, स एव वीरोऽसंयमे विषयेषु परिग्रहे वा या रतिरुत्पद्यते तां न सहते न मर्षयति, या चारतिः संयमे विषयेषु च से रतिस्ताभ्यां विमनीभूतः शब्दादिषु न रज्यति, अतो रत्यरतिपरित्यागान्न विमनस्को भवति नापि रागमुपयातीति दर्शयति-2 दर्शिनोवीराः यस्मात्त्यक्तरत्यरतिरविमना वीरस्तस्मात् कारणाद्वीरोन रज्यति शब्दादिविषयग्रामे न गाद्ध्यं विदधाति / / 99 // यत एवं ततः किमित्याह सद्दे फासे अहियासमाणे निव्विंद नंदिइह जीवियस्स।मुणी मोणं समायाय, धुणे कम्मसरीरगं / सूगा०३॥पंतं लूहं सेवंति वीरा संमत्तदंसिणो। एस ओहंतरे मुणी तिन्ने मुत्ते विरए वियाहिए त्तिबेमि / / सूत्रम् 100 / / यस्माद्वीरो रत्यरती निराकृत्य शब्दादिषु विषयेषु मनोज्ञेषु न रागमुपयाति, नापि दुष्टेषु द्वेषम्, तस्माच्छब्दान् स्पर्शाश्च मनोज्ञेतरभेदभिन्नान् अहियासमाणे त्ति सम्यक् सहमानो निर्विन्द नन्दीत्युत्तरसूत्रेण सम्बन्धः, एतदुक्तं भवति मनोज्ञान् शब्दान् श्रुत्वा नरागमुपयाति, नापीतरान् द्वेष्टि, आद्यन्तग्रहणाच्चेतरेषामप्युपादानं द्रष्टव्यम्, तत्राप्यधिसहनं विधेयमिति, उक्तं-सद्देसुरी अभद्दयपावएसु, सोयविसयमुवगएसु / तुट्टेण व रुद्रेण व समणेण सया न होअवं // 1 // एवं रूवेसु अ भद्दयपावएसु० / तहा गंधेसु तत्राप्यतिसहनं (प्र०)10 शब्देषु च भद्रकपापकेषु श्रोत्रविषयमुपगतेषु। तुष्टेन वा रुष्टेन वा श्रमणेन सदा न भवितव्यम // 1 // एवं रूपेषु च भद्रकपापकेषु।