SearchBrowseAboutContactDonate
Page Preview
Page 287
Loading...
Download File
Download File
Page Text
________________ श्रीआचाराङ्ग नियुक्तिश्रीशीला० वृत्तियुतम् श्रुतस्कन्धः१ // 249 // सूत्रम् 19 कर्मणां- अशेषद्वन्द्ववातात्मकसंसारतरुबीजभूतानामुपशान्तिः- उपशमः, कर्मक्षयःप्राणिनिकारक्रियानिवृत्तेर्भवतीत्युक्तं श्रुतस्कन्धः१ भवति // 98 // अस्य च कर्मक्षयप्रत्यूहस्य प्राणिनिकरणस्य मूलमात्मात्मीयग्रहः, तदपनोदार्थमाह द्वितीयमध्ययन लोकविजयः, जेममाइयमई जहाइ से चयइ ममाइयं, से हु दिट्ठपहे मुणी जस्स नत्थि ममाइयं, तं परिन्नाय मेहावी विइत्ता लोगवंता लोगसन्नं से षष्ठोद्देशकः मइमं परिक्कमिजासित्तिबेमि // सूत्रम् 99 ॥नारइंसहईवीरे, वीरेन सहई रतिं / जम्हा अविमणे वीरे, तम्हा वीरेन रजइ॥सू०गा०२॥ ममतात्यागे ममायितं- मामकं तत्र मतिर्मयायितमतिस्तां यः परिग्रहविपाकज्ञो जहाति परित्यजति स ममायितं स्वीकृतं परिग्रहं जहाति। मुनित्वम् परित्यजति, इह द्विविधः परिग्रहो- द्रव्यतो भावतश्च, तत्र परिग्रहमतिनिषेधादान्तरो भावपरिग्रहो निषिद्धः, परिग्रहबुद्धिविषयप्रतिषेधाच्च बाह्यो द्रव्यपरिग्रह इति / अथवा काक्वा नीयते, यो हि परिग्रहाध्यवसायकलुषितं ज्ञानं परित्यजति स. एव परमार्थतः सबाह्याभ्यन्तरं परिग्रहं परित्यजति, ततश्चेदमुक्तं भवति-सत्यपि सम्बन्धमाने चित्तस्य परिग्रहकालुष्याभावानगरादिसम्बन्धि पृथ्वीसम्बन्धेऽपि निजकल्पिकस्येव निष्परिग्रहतैव, यदि नामैवं ततः किमित्याह- से हु इत्यादि, यो हि मौक्षेकविघ्नहेतोः संसारभ्रमणकारणात् परिग्रहान्निवृत्ताध्यवसायः, हुः अवधारणे, स एव मुनिः दृष्टो ज्ञानादिको मोक्षपथो येन स दृष्टपथः, यदिवा दृष्टभयः-अवगतसप्तप्रकारभयः शरीरादेः परिग्रहात्साक्षात्पारम्पर्येण वा पर्यालोच्यमानं सप्तप्रकारमपि भयमापनीपद्यत इत्यतः परिग्रहपरित्यागेज्ञातभयत्वमवसीयत इति / एतदेव पूर्वोक्तं स्पष्टयितुमाह- जस्स इत्यादि, यस्य ममायितं स्वीकृतं परिग्रहो न विद्यते स दृष्टभयो मुनिरिति सम्बन्धः, किं च- तं इत्यादि, तं पूर्वव्यावर्णितस्वरूपं परिग्रह द्विविधयाऽपि परिज्ञया परिज्ञाय मेधावी ज्ञातज्ञेयो विदित्वा लोकं परिग्रहाग्रहयोगविपाकिनमेकेन्द्रियादिप्राणिगणं वान्त्वा उद्गीर्य 'लोकस्य' प्राणिगणस्य संज्ञा दशप्रकारा अतस्तांस इति मुनिः, किंभूतो?- मतिमान् सदसद्विवेकज्ञः पराक्रमेथाः संयमानुष्ठाने
SR No.600430
Book TitleAcharang Sutram Pratham Shrutskandh
Original Sutra AuthorN/A
AuthorPunyakiritivijay
PublisherShripalnagar Jain Shwetambar Murtipujak Derasar Trust
Publication Year2012
Total Pages586
LanguageSanskrit
ClassificationManuscript & agam_acharang
File Size38 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy