________________ श्रीआचाराङ्गं नियुक्तिश्रीशीला० वृत्तियुतम् श्रुतस्कन्धः१ // 248 // सुखकृते तत्तदारभते येन शारीरमानसदुःखव्यसनोपनिपातानामनन्तमपि कालं पात्रतां व्रजतीति / पुनरपि मूढस्यानर्थपरम्परां श्रुतस्कन्धः१ दर्शयितुमाह- सएण इत्यादि, स्वकीयेनात्मना कृतेन प्रमादेन- मद्यादिना विविध मिति मद्यविषयकषायविकथानिद्राणां द्वितीयमध्ययनं लोकविजयः, स्वभेदग्रहणम्, तेन पृथग्-विभिन्नं व्रतं करोति, यदिवा पृथु विस्तीर्णं वय मिति वयन्तें-पर्यटन्ति प्राणिनः स्वकीयेन कर्मणा षष्ठोद्देशक: यस्मिन् स वयः-संसारस्तं प्रकरोति, एकैकस्मिन् काये दीर्घकालावस्थानाद्, यदिवा कारणे कार्योपचारात् स्वकीय नाना- सूत्रम् 98 ममतात्यागे विधप्रमादकृतेन कर्मणा वयः- अवस्थाविशेषस्तमेकेन्द्रियादिकललार्बुदादितदहर्जातबालादिव्याधिगृहीतदारिद्र्यदौर्भाग्य मुनित्वम् व्यसनोपनिपातादिरूपं प्रकर्षण करोति-विधत्त इति / तस्मिंश्च संसारेऽवस्थाविशेषेवा प्राणिनः पीड्यन्ते इति दर्शयितुमाह सिमे इत्यादि, यस्मिन् स्वकृतप्रमादापादितकर्मविपाकजनिते चतुर्गतिकसंसारे एकेन्द्रियाद्यवस्थाविशेषे वा इमे प्रत्यक्षगोचरीभूताः प्राणा इत्यभेदोपचारात्प्राणिनः प्रव्यथिताः नानाप्रकारैर्व्यसनोपनिपातैः पीडिताः, सुखार्थिभिरारम्भप्रवृत्तैर्मोहाद्विपर्यस्तैः प्रमादवद्भिश्च गृहस्थैः पाषण्डिकैर्यत्याभासैश्चेति वा / यदि नामात्र प्रव्यथिताः प्राणिनस्ततः किमित्याह-पडि इत्यादि, एतत् संसारचक्रे स्वकृतकर्मफलेश्वराणामसुमतांगृहस्थादिभिः परस्परतो वा कर्मविपाकतोवा प्रव्यथनं प्रत्युपेक्ष्य विदितवेद्यः साधुनिश्चयेन नितरां वा नियतं वा क्रियन्ते नानादुःखावस्था जन्तवो येन तन्निकरणं निकारः- शारीरमानसदुःखोत्पादनं तस्मै नो कर्म कुर्याद्, येन प्राणिनांपीडोत्पद्यते तमारम्भंन विदध्यादिति भावार्थः / एवं चसति किं भवतीत्याहएस इत्यादि, येयंसावद्ययोगनिवृत्तिरेषा परिज्ञा एतत्तत्त्वतः परिज्ञानं प्रकर्षणोच्यते प्रोच्यते, न पुनः शैलूषस्येव ज्ञानं निवृत्तिफल-॥२४॥ रहितमिति / एवं द्विविधयाऽपिज्ञपरिज्ञया प्रत्याख्यानपरिज्ञया च प्राणिनिकारपरिहारे सति किं भवतीत्याह-कम्मोवसंतीत्ति 7 वयन्ति (मु०)। 7 चक्रवाले (मु०)।