________________ श्रीआचाराङ्गं नियुक्तिश्रीशीला० वृत्तियुतम् श्रुतस्कन्धः१ // 247 // श्रुतस्कन्धः१ द्वितीयमध्ययनं लोकविजयः, षष्ठोद्देशकः सूत्रम् 98 ममतात्यागे | मुनित्वम् द्यमानेनासुमताऽऽत्मा व्यापादकाय दत्तस्तीर्थकरेण चानुज्ञातोऽतः प्राणिनः प्राणान् गृह्णन्नदत्तग्राही, सावद्योपादानाच्च पारिग्रहिकः, परिग्रहाच्च मैथुनरात्रिभोजने अपि गृहीते, यतो नापरिगृहीतमुपभुज्यते परिभुज्यते चेत्यतोऽन्यतरारम्भेषण्णामप्यारम्भोऽथवा अनावृतचतुराश्रवद्वारस्य कथं चतुर्थषष्ठव्रतावस्थानं स्याद्?, अतः षट्स्वन्यतरस्मिन् प्रवृत्तः सर्वेष्वपि प्रवृत्त इति, अथवैकतरमपि पापसमारम्भंय आरभतेस षट्स्वन्यतरस्मिन् कल्पते- योग्यो भवति, अकर्त्तव्यप्रवृत्तत्वाद्, अथवैकतरमपि यः पापारम्भं करोत्यसावष्टप्रकारं कर्मादाय षट्स्वन्यतरस्मिन् कल्पते- प्रभवति, पौनः पुन्येनोत्पद्यत इत्यर्थः, स्यात्किमर्थमेवंविधं पापकं कर्म समारभते?, तदुच्यते-सुहट्ठी लालप्पमाणे सुखेनार्थः सुखार्थः स विद्यते यस्यासाविति मत्वर्थीयः, स एवम्भूतः सन्नत्यर्थं लपति पुनः पुनर्वा लपति लालप्यते वाचा कायेन धवनवल्गनादिकाः क्रियाः करोति मनसा च तत्साधनोपायांश्चिन्तयति, तथाहि- सुखार्थी सन् कृष्यादिकर्मभिः पृथिवीं समारभते स्नानार्थमुदकं वितापनार्थमग्निं घर्मापनोदार्थं वायुं आहारार्थी वनस्पतिं त्रसकायं वेत्यसंयतः संयतो वा रससुखार्थी सचित्तं लवणवनस्पतिफलादि गृह्णात्येवमन्यदपि यथासंभवमायोज्यम् / स चैवं लालप्यमानः किंभूतो भवतीत्याह-सएण इत्यादि, यत्तदुप्तमन्यजन्मनि दुःखतरुकर्मबीजं तदात्मीयं दुःखतरुकार्यमाविर्भावयति, तच्च तेनैव कृतमित्यात्मीयमुच्यते, अतस्तेन स्वकीयेन दुःखेन स्वकृतकर्मोदयजनितेन मूढः परमार्थमजानानो विपर्यासमुपैति सुखार्थी प्राण्युपघातकारणमारम्भमारभते, सुखस्य च विपर्यासो दुःखं तदुपैति, उक्तं च-दुःखद्विट् सुखलिप्सुर्मोहान्धत्वाददृष्टगुणदोषः / यां यां करोति चेष्टां तया तया दुःखमादत्ते // 1 // यदिवा मूढो हिताहितप्राप्तिपरिहाररहितो विपर्यासमुपैति हितमप्यहितबुद्ध्याऽधितिष्ठत्यहितंच हितबुद्ध्येति, एवं कार्याकार्यपथ्यापथ्यवाच्यावाच्यादिष्वपि विपर्यासोयोज्यः, इदमुक्तं भवति- मोहोऽज्ञानं मोहनीयभेदोवा, तेनोभयप्रकारेणापि मोहेन मूढोऽल्प // 247 //