________________ श्रीआचाराङ्गं नियुक्तिश्रीशीला वृत्तियुतम् श्रुतस्कन्धः१ // 246 // धायित्वात् किं कुर्यादित्याह- तम्हा इत्यादि, यस्मात् संयमः सर्वसावद्यारम्भनिवृत्तिरूपस्तस्मात्तमादाय पापं-पापहेतुत्वात् / |श्रुतस्कन्धः 1 कर्म क्रियां न कुर्यात् स्वतो मनसाऽपि न समनुजानीयादित्यवधारणफलम्, अपरेणापि न कारयेदिति, आह च-न कारवे द्वितीयमध्ययनं लोकविजयः, इत्यादि, अपरेणापि कर्मकरादिना पापसमारम्भंन कारयेदित्युक्तं भवति, प्राणातिपातमृषावादादत्तादानमैथुनपरिग्रहक्रोध षष्ठोद्देशक: मानमायालोभरागद्वेषकलहाभ्याख्यानपैशून्यपरिवादारतिरतिमायामृषावादमिथ्यादर्शनशल्यरूपमष्टादशप्रकारं पापं कर्मस्वतो सूत्रम् 98 ममतात्यागे न कुर्यान्नाप्यपरेण कारयेदेवकाराच्चापरं कुर्वन्तं न समनुजानीयाद्योगत्रिकेणापि भावार्थः / स्यादेतत्-किमेकं प्राणातिपातादिकं पापं / मुनित्वम् कुर्वतोऽपरमपिढौकते आहोस्विन्नेत्याह सिया तत्थ एगयरं विप्परामुसइ छसु अन्नयरंमि, कप्पड़ सुहट्ठी लालप्पमाणे, सएण दुक्खेण मूढे विप्परियासमुवेइ, सएण विप्पमाएण पुढो वयं पकुव्वइ, जंसिमे पाणा पव्वहिया, पडिलेहाए नो निकरणयाए, एस परिन्ना पवुच्चइ, कम्मोवसंती॥सूत्रम् 98 // स्यात्तत्र कदाचित्तत्र पापारम्भे एकतरं पृथिवीकायादिसमारम्भं विपरामृशति- पृथिवीकायादिसमारम्भं करोति, एकतरं वाऽऽश्रवद्वार परामृशति- आरभतेस षट्स्वन्यतरस्मिन् कल्पते, यस्मिन्नेवालोच्यते तस्मिन्नेव प्रवृत्तो द्रष्टव्यः, इदमुक्तं भवतिपृथिवीकायादिषु षट्सु जीवनिकायेष्वाश्रवद्वारेषु वा मध्येऽन्यतरस्मिन्नपि प्रवर्त्तमानो यस्मिन्नेव पर्यालोच्यते तस्मिन्नेव कल्पते, सर्वस्मिन्नेव वर्त्तत इति भावार्थः / कथमन्यतरस्मिन् पृथिवीकायादिसमारम्भे वर्तमानोऽपरकायसमारम्भे सर्वपापसमारम्भे वा वर्त्तते? एवं मन्यते-कुम्भकारशालोदकप्लावनदृष्टान्तेनैककायसमारम्भकोऽपरकायसमारम्भको भवति, अथवा प्राणातिपाताम्रवद्वारविघटनादेकजीवातिपातादेककायातिपादाद्वा अपरजीवातिपाती द्रष्टव्यः, प्रतिज्ञालोपाच्चानृतो, नच तेन व्यापा (c) कल्प्यते (मु०)। 7 वा वर्तते इत्येवं मन्यते ? (मु०)।