________________ श्रीआचाराङ्गं नियुक्तिश्रीशीला० वृत्तियुतम् श्रुतस्कन्धः१ // 245 // विधानं वाऽवगततत्त्वस्य न भवतीत्याह- न एवं इत्यादि, एवम्भूतं प्राण्युपमर्दैन चिकित्सोपदेशदानं करणं वा अनगारस्य श्रुतस्कन्धः 1 साधोः ज्ञातसंसारस्वभावस्य न जायते-न कल्पते, ये तु कामचिकित्सांव्याधिचिकित्सांवा जीवोपमर्दैन प्रतिपादयन्ति ते द्वितीयमध्ययन लोकविजयः, बाला अविज्ञाततत्त्वत्वात्, तेषां वचनमवधीरणीयमेवेति भावार्थः॥ 96 // इतिः परिसमाप्त्यर्थे, ब्रवीमीति पूर्ववदिति षष्ठोद्देशक: लोकविजयस्स पञ्चमोद्देशकः समाप्तः। सूत्रम् 97 ममतात्यागे ॥द्वितीयाऽध्ययने षष्ठोद्देशकः॥ मुनित्वम् उक्तः पञ्चमोद्देशकः, साम्प्रतं षष्ठ आरभ्यते, अस्य चायमभिसम्बन्धः- संयमदेहयात्रार्थं लोकमनुसरता साधुना लोके ममत्वं न कर्त्तव्यमित्युद्देशार्थाधिकारोऽभिहितः, सोऽधुना प्रतिपाद्यते- अस्य चानन्तरसूत्रसम्बन्धोवाच्यो नैवमनगारस्य जायत / इत्यभिहितम्, एतदेवात्रापि प्रतिपिपादयिषुराह__ से तं संबुज्झमाणे आयाणीयं समुट्ठाय तम्हा पावकम्मं नेव कुजा न कारवेज्जा // सूत्रम् 97 // यस्यानगारस्यैतत्पूर्वोक्तं न जायते सोऽनगारस्तत्-प्राण्युपघातकारि चिकित्सोपदेशदानमनुष्ठानं वा संबुद्ध्यमानः-अवगच्छन् ज्ञपरिज्ञया प्रत्याख्यानपरिज्ञया च परिहरन्नादातव्यं आदानीयं तच्च परमार्थतो भावादानीयं ज्ञानदर्शनचारित्ररूपं तद् उत्थाये त्यनेकार्थत्वादादाय- गृहीत्वा अथवा सोऽनगार इत्येतदादानीयं-ज्ञानाद्यपवर्गककारणमित्येवं सम्यगवबुद्ध्यमानः सम्यक्संयमानुष्ठानेनोत्थाय सर्वं सावधं कर्म न मया कर्त्तव्यमित्येवं प्रतिज्ञामन्दरमारुह्य, क्त्वाप्रत्ययस्य पूर्वकालाभि (r) बाला:-अविज्ञाततत्त्वाः (मु०)।