________________ सहसत श्रीआचाराङ्गं नियुक्तिश्रीशीला० वृत्तियुतम् श्रुतस्कन्धः१ // 244 // श्रुतस्कन्धः१ द्वितीयमध्ययनं लोकविजयः, पञ्चमोद्देशकः सूत्रम् 96 अविरतिफलम् समन्तिकस्थे, मुक्ते तु तप्तिरधिका रमितेऽप्यतृप्तिः / द्वेषोऽन्यभाजि वशवर्त्तिनि दग्धमानः, प्राप्तिः सुखस्य दयिते न कथञ्चिदस्ति॥१॥ इत्यादि।।९५॥ तदेवमनेकधा कामविपाकमुपदर्य उपसंहरति से तं जाणह जमहं बेमि, तेइच्छं पंडिए पवयमाणे से हंता छित्ता भित्ता लुंपइत्ता विलुंपइत्ता उद्दवइत्ता, अकडं करिस्सामित्ति मन्नमाणे, जस्सवि यणं करेइ, अलं बालस्स संगणं, जे वा से कारइ बाले, न एवं अणगारस्स जायइ // सूत्रम् 96 // तिबेमि॥ लोकविजये पञ्चमोद्देशकः // 2-5 // से त्ति तदर्थे तदपि हेत्वर्थे, यस्मात्कामा दुःखैकहेतवस्तस्मात्तज्जानीत यदहं ब्रवीमि, मदुपदेशं कामपरित्यागविषयं कर्णे कुरुतेति भावार्थः / ननु च कामनिग्रहोऽत्र चिकीर्षितः, स चान्योपदेशादपि सिद्ध्यत्येवेत्येतदाशङ्कयाह- तेइच्छं इत्यादि, कामचिकित्सां पण्डितः' पण्डिताभिमानी प्रवदन्नपरव्याधिचिकित्सामिवोपदिशन्नपरः-तीर्थिको जीवोपमर्दे वर्त्तत इति, आह- से हंता इत्यादि, स इत्यविदिततत्त्वः कामचिकित्सोपदेशकः प्राणिनां हन्ता दण्डादिभिः छेत्ता कर्णादीनां भेत्ता शूलादिभिः लुम्पयिता ग्रन्थिच्छेदनादिना विलुम्पयिता अवस्कन्दादिना अपद्रावयिता प्राणव्यपरोपणादिना, नान्यथा कामचिकित्सा व्याधिचिकित्सा वा अपरमार्थदृशां सम्पद्यते, किं च- अकृतं यदपरेण न कृतं कामचिकित्सनं व्याधिचिकित्सनं वा तदहं करिष्य इत्येवं मन्यमानः हननादिकाः क्रियाः करोति, ताभिश्च कर्मबन्धः, अतो य एवंभूत उपदिशति यस्याप्युपदिश्यते उभयोरप्येतयोरपथ्यत्वादकार्यमिति, आह च- जस्सवि य णं इत्यादि, यस्याप्यसावेवंभूतां चिकित्सा करोति, न केवलं स्वस्येत्यपिशब्दार्थः, तयोर्द्वयोरपि कर्तुः कारयितुश्च हननादिकाः क्रियाः, अतो अलं पर्याप्तं बालस्य अज्ञस्य सङ्गेन कर्मबन्धहेतुना कर्तुरिति, यो वैतत् कारयति बालः अज्ञस्तस्याप्यलमिति सण्टङ्कः, एतच्चैवम्भूतमुपदेशदानं