________________ श्रीआचाराङ्ग नियुक्तिश्रीशीला० वृत्तियुतम् श्रुतस्कन्धः१ / / 243 // लोभं करोतीति-अर्जयति येन जन्मशतेष्वपि वैरं वर्द्धत इति, उक्तं च दुःखार्त्तः सेवते कामान्, सेवितास्ते च दुःखदाः। यदि ते न श्रुतस्कन्धः१ प्रियं दुःखं, प्रसङ्गस्तेषु न क्षमः॥१॥किं पुनः कारणमसुमांस्तत्करोति येनात्मनो वैरं वर्द्धते?, इत्याह- जमिणं इत्यादि, यदि द्वितीयमध्ययन लोकविजयः, ति यस्मादस्यैव- विशरारोः शरीरकस्य परिबृंहणार्थं प्राणघातादिकाः क्रियाः करोतीति, ते च तेनोपहताः प्राणिनः पुनः पञ्चमोद्देशकः शतशोघ्नन्ति, ततो मयेदं कथ्यते-कासंकषः खल्वयं पुरुषो बहुमायी कृतेन मूढः पुनस्तत्करोति येनात्मनो वैरं वर्द्धयतीति, सूत्रम् 95 अविरतिफलम् यदिवा यदिदं मयोपदेशप्रायं पौन:पुन्येन कथ्यते तदस्यैव संयमस्य परिबृंहणार्थम्, इदं चापरं कथ्यते- अमराय ईत्यादि, अमरायतेऽनमरः सन् द्रव्ययौवनप्रभुत्वरूपावसक्तोऽमर इवाचरति अमरायते, कोऽसौ?- महाश्रद्धी महती चासौ श्रद्धा चल महाश्रद्धा सा विद्यते भोगेषु तदुपायेषु वा यस्य स तथा, अत्रोदाहरणं- राजगृहे नगरे मगधसेना गणिका, तत्र कदाचिद्धनः सार्थवाहो महता द्रव्यनिचयेन समन्वितः प्रविष्टः, तद्रूपयौवनगुणगणद्रव्यसम्पदाक्षिप्तया मगधसेनयाऽसावभिसरितः, तेन चायव्ययाक्षिप्तमानसेनासौ नावलोकिताऽपि, अस्याश्चात्मीयरूपयौवनसौभाग्यावलेपान्महती दुःखासिकाऽभूत्, ततश्च तां परिम्लानवदनामवलोक्य जरासन्धेनाभ्यधायि- किं भवत्या दुःखासिकाकारणं?, केन वा सार्द्धमुषितेति, सा त्ववादीद्अमरेणेति, कथमसावमर इत्युक्ते तया सद्भावः कथितो निरूपितश्च यावत्तथैवाद्याप्यास्त इत्यतो भोगार्थिनोऽर्थे प्रसक्ता अजरामरवत्क्रियासु प्रवर्त्तन्त इति / यश्चामरायमाणः कामभोगाभिलाषुकः स किंभूतो भवतीत्याह- अट्ट इत्यादि, अतिःशारीरमानसी पीडा तत्र भव आर्त्तस्तमार्त्तममरायमाणं कामार्थं महाश्रद्धावन्तं प्रेक्ष्य दृष्ट्वा पर्यालोच्य वा कामार्थयोर्न मनो विधेयमिति, पुनरमरायमाणभोगश्रद्धावतः स्वरूपमुच्यते- अपरिण्णाए इत्यादि, कामस्वरूपं तद्विपाकं वा अपरिज्ञाय तत्र दत्तावधानः कामस्वरूपापरिज्ञया वा क्रन्दते भोगेष्वप्राप्तनष्टेषु काङ्क्षाशोकावनुभवतीति, उक्तं च- चिन्ता गते भवति साध्व