________________ श्रीआचाराङ्गं नियुक्तिश्रीशीला० वृत्तियुतम् श्रुतस्कन्धः१ // 242 // श्रुतस्कन्धः१ द्वितीयमध्ययनं लोकविजयः, पञ्चमोद्देशकः सूत्रम् 95 अविरतिफलम् एवंभूतोऽयं पुरुषः सर्वदा किंकर्त्तव्यताकुल इदमहमकार्षमिदं च करिष्ये इत्येवं भोगाभिलाषक्रियाव्यापृतान्तःकरणो न स्वास्थ्यमनुभवति, खलुशब्दोऽवधारणे, वर्तमानकालस्यातिसूक्ष्मत्वादसंव्यवहारित्वमतीतानागतयोश्चेदमहमकार्षमिदं च करिष्य इत्येवमातुरस्य नास्त्येव स्वास्थ्यमिति, उक्तं च- इदं तावत् करोम्यद्य, श्वः कर्ताऽस्मीति चापरम् / चिन्तयनिह कार्याणि, प्रेत्यार्थं नावबुध्यते॥१॥ अत्र दधिघटिकाद्रमकद्रष्टान्तो वाच्यः, स चायं- द्रमकः कश्चित् क्वचिन्महिषीरक्षणावाप्तदुग्धः तद्दधीकृत्य चिन्तयामास, ममातोघृतवेतनादि यावद्भार्या अपत्योत्पत्तिस्ततश्चिन्ता, कलहे पार्णिप्रहारेणैव दधिघटिकाव्यापत्ति: एवं वा चिन्तामनोरथव्याकुलीकृतान्तःकरणेन दध्यानयने शिरोविण्टलीकाचीवरे आदीयमाने इव शिरो विधूयास्फोटिता दधिघटिकेत्येवं यथा तेन न तद्दधि भक्षितं नापि कस्मैचित्पुण्याय दत्तम्, एवमन्योऽपिकासंकस:- किंकर्त्तव्यतामूढो निष्फलारम्भो भवतीति, अथवा कस्यतेऽस्मिन्निति कासः- संसारस्तं कषतीतितदभिमुखो यातीति कासंकषः, यो ज्ञानादिप्रमादवान् वक्ष्यमाणो वेत्याह- बहुमायी कासंकषो हि कषायैर्भवति, तन्मध्यभूताया मायाया ग्रहणे तेषामपि ग्रहणं द्रष्टव्यमिति, ततः क्रोधी मानी मायी लोभीति द्रष्टव्यमिति / अपि च- कडेण मूढे करणं कृतं तेन मूढः- किंकर्तव्यताकुलः सुखार्थी दुःखमश्नुते इति, उक्तं हि सोउं सोवणकाले मज्जणकाले य मज्जिउं लोलो। जेमेउं च वराओ जेमणकाले न चाएइ॥१॥ अत्र मम्मणवणिग्दृष्टान्तो वाच्यः, स चैवं कासंकषः बहुमायी कृतेन मूढस्तत्तत्करोति येनात्मनो वैरानुषङ्गो जायत इति, आह च- पुणो तं करेई त्यादि, मायावी परवञ्चनबुद्ध्या पुनरपि तल्लोभानुष्ठानं तथा करोति येनात्मनो वैरं वर्द्धते, अथवा तं ®पत्तिरित्येवं चिन्ता....कृतान्त:करण इति तद्दध्यानयने (मु०)10 स्वपितुं शयनकाले मज्जनकाले च मङ्गं लोलः (चपलः)। जेमितुं च वराको जेमनकाले न शक्नोति // 1 // 242 //