________________ श्रीआचारानं नियुक्तिश्रीशीला० वृत्तियुतम् श्रुतस्कन्धः१ / / 240 // प्रभवति, यदिवा कामगृद्धान् संसारेऽनुपरिवर्त्तमानानसुमतः पश्येत्येवमुपदेशः, अपि च- संधिं इत्यादि, इह मर्येषु मनुजेषु / श्रुतस्कन्धः१ यो ज्ञानादिको भावसन्धिः, सच मर्येष्वेव सम्पूर्णो भवतीति मर्त्यग्रहणम्, अतस्तं विदित्वा यो विषयकषायादीन् परित्यजति द्वितीयमध्ययनं लोकविजयः, स एव वीर इति दर्शयति- एस इत्यादि, एषः अनन्तरोक्तः आयतचक्षुर्यथावस्थितलोकविभागस्वभावदर्शी भावसन्धेर्वेत्ता | पञ्चमोद्देशकः परित्यक्तविषयतर्षो वीरः कर्मविदारणात् प्रशंसितः स्तुतः विदिततत्त्वैरिति / स एवंभूतः किमपरं करोतीति चेदित्याह- जे सूत्रम् 94 आहारादिबद्धे इत्यादि, यो बद्धान् द्रव्यभावबन्धनेन स्वतो विमुक्तोऽपरानपि मोचयतीत्येतदेव द्रव्यभावबन्धनविमोक्षं वाचोयुक्त्याऽऽचष्टे विधिः जहा अंतो तहा बाहिं इत्यादि, यथाऽन्तर्भावबन्धनमष्टप्रकारकर्मनिगडनं मोचयति एवं पुत्रकलत्रादि बाह्यमपि, यथा वा बाह्य बन्धुबन्धनं मोचयति एवं मोक्षगमनविघ्नकारणमान्तरमपीति, यदिवा कथमसौ मोचयतीति चेत्तत्वाविर्भावनेन, स्यादेतत्तदेव किंभूतमित्याह- जहा अंतो इत्यादि, यथा स्वकायस्यान्तः- मध्ये अमेध्यकललपिशितासृक्पूत्यादिपूर्णत्वेनासारत्वमित्येवं बहिरप्यसारता द्रष्टव्या, अमेध्यपूर्णघटवदिति, उक्तंच- यदि नामास्य कायस्य, यदन्तस्तबहिर्भवेत् / दण्डमादाय लोकोऽयं, शुनः काकांश्च वारयेत् // 1 // इति, यथा वा बहिरसारता तथाऽन्तरपीति / किं च- अन्तो अन्तो इत्यादि, देहस्य मध्ये मध्ये पूत्यन्तराणि पूतिविशेषान् देहान्तराणि देहस्यावस्थाविशेषान्, इह मांसमिहरुधिरमिह मेदो मज्जा चेत्येवमादि पूतिदेहान्तराणि / पश्यति यथावस्थितानि परिच्छिनत्तीत्युक्तं भवति, यदिवा देहान्तराण्येवंभूतानि पश्यति- पुढो इत्यादि, पृथगपि प्रत्येकमपि अपिशब्दात्कुष्ठाद्यवस्थायां यौगपद्येनापि स्रवन्ति नवभिः श्रोत्रोभिः कर्णाक्षिमलश्लेष्मलालाप्रश्रवणोच्चारादीन् तथाऽपरव्याधिविशेषापादितव्रणमुखपूतिशोणितरसिकादीनि चेति / यद्येतानि ततः किं?- पंडिए पडिलेहाए एतान्येवंभूतानि 0 निवर्तनाय न प्रभवति ? (मु०)। // 240 //