________________ श्रीआचाराङ्गं नियुक्तिश्रीशीला वृत्तियुतम् श्रुतस्कन्धः१ // 239 / / शिष्टाचीर्ण: सुगतिगमनैकहेतुर्दुर्गतिद्वारपरिघो धर्मो नाचीर्णः? इत्येवं शोचत इति, उक्तं च- भवित्रीं भूतानां परिणतिमनालोच्य श्रुतस्कन्धः१ नियता, पुरा यद्यत् किश्चिद्विहितमशुभं यौवनमदात् / पुनः प्रत्यासन्ने महति परलोकैकगमने, तदेवैकं पुंसां व्यथयति जराजीर्णवपुषाम्॥ द्वितीयमध्ययनं लोकविजयः, १॥तथा जूरतीत्यादीन्यपि स्वबुद्ध्या योजनीयानि, उक्तं च सगुणमपगुणं वा कुर्वता कार्यजातं, परिणतिरवधार्या यत्नतः पण्डितेन / पञ्चमोद्देशकः अतिरभसकृतानां कर्मणामाविपत्तेर्भवति हृदयदाही शल्यतुल्यो विपाकः॥१॥ इत्यादि // 13 // कः पुनरेवं न शोचत इत्याह- सूत्रम् 94 आहारादि__ आययचक्खूलोगविपस्सी लोगस्स अहो भागंजाणइ उडे भागंजाणइ तिरियं भागंजाणइ, गड्डिए लोए अणुपरियट्टमाणे, संधिं विधिः विइत्ता इह मच्चिएहि, एस वीरे पसंसिए जे बद्धे पडिमोयए जहा अंतो तहा बाहिं जहा बाहिं तहा अंतो, अंतो अंतो पूइ देहंतराणि पासइ पुढोविसवंताई पंडिए पडिलेहाए।सूत्रम् 94 // आयतं- दीर्घमैहिकामुष्मिकापायदर्शि चक्षुः- ज्ञानं यस्य स आयतचक्षुः, कः पुनरित्येवंभूतो भवति? यः कामानेकान्तेनानर्थभूयिष्ठान् परित्यज्य शमसुखमनुभवति, किंच-लोगविपस्सी लोकं विषयानुषगावेशाप्तदुःखातिशयं तथा त्यक्तकामावाप्तप्रशमसुखं विविधं द्रष्टुंशीलमस्येति लोकविदर्शी, अथवा लोकस्य ऊधिस्तिर्यग्भागगतिकारणायुष्कसुखदुःखविशेषान् पश्यतीति, एतद्दर्शयति- लोगस्स इत्यादि, लोकस्य- धर्माधर्मास्तिकायावच्छिन्नाकाशखण्डस्याधोभागं जानातीतिस्वरूपतोवगच्छति, इदमुक्तं भवति- येन कर्मणा तत्रोत्पद्यन्तेऽसुमन्तः यादृक् च तत्र सुखदुःखविपाको भवति तं जानाति एवमूर्द्धतिर्यग्भागयोरपि वाच्यम्, यदिवा लोकविदर्शीति कामार्थमर्थोपार्जनप्रसक्तं गृद्धमध्युपपन्नं लोकं पश्यतीति / एतदेव दर्शयितुमाह- गड्डिए इत्यादि, अयं हि लोको गृद्धः अध्युपपन्नः कामानुषङ्गे तदुपाये वा तत्रैवानुपरिवर्त्तमानो भूयो भूयस्तदेवाचरंस्तजनितेन वा कर्मणा संसारचक्रेऽनुपरिवर्त्तमान:- पर्यटन्नायतचक्षुषो गोचरीभवन् कामाभिलाषनिवर्त्तनाय /