________________ श्रीआचाराङ्ग नियुक्तिश्रीशीला० वृत्तियुतम् श्रुतस्कन्धः१ // 237 // अश्ववालधिवालादि स्वरुचिविरचितो मार्ग इति, न वा यथा मौद्गलिस्वातिपुत्राभ्यां शौद्धोदनिं ध्वजीकृत्य प्रकाशितः, |श्रुतस्कन्धः१ इत्यनया दिशा अन्येऽपि परिहार्या इति / इह तु स्वशास्त्रगौरवमुत्पादयितुमार्यैः प्रवेदित इत्युक्तम्, अस्मिंश्चार्यप्रवेदिते मार्गे | द्वितीयमध्ययनं लोकविजयः, प्रयत्नवता भाव्यमिति, आह च-जहेत्थ इत्यादि, लब्ध्वा कर्मभूमिं मोक्षपादपबीजभूतांच बोधिं सर्वसंवरचारित्रं च प्राप्य | पञ्चमोद्देशकः तथा विधेयं यथा 'कुशलो' विदितवेद्यः अत्र अस्मिन्नार्यप्रवेदिते मार्गे आत्मानं पापेन कर्मणा नोपलिम्पयेत् इति / एवं सूत्रम् 93 आहारादिचोपलिम्पनं भवति यदि यथोक्तानुष्ठानविधायित्वं न भवति, सतां चायं पन्था यदुत-यत्स्वयं प्रतिज्ञातं तदन्त्योच्छासं विधिः यावद्विधेयमिति, उक्तं च- लज्जां गुणौघजननी जननीमिवार्यामत्यन्तशुद्धहृदयामनुवर्तमानाः। तेजस्विनः सुखमसूनपि सन्त्यजन्ति, सत्यस्थितिव्यसनिनो न पुनः प्रतिज्ञाम्॥१॥इतिशब्दोऽधिकारसमाप्त्यर्थो, 'ब्रवीमि' इति सोऽहं ब्रवीमि येन मया भगवत्पादारविन्दमुपासता अश्रावीति ॥९२॥परिग्रहादात्मानमपसर्पयेदित्युक्तम्, तच्चन निदानोच्छेदमन्तरेण, निदानंच शब्दादिपञ्च-8 गुणानुगामिनः कामास्तेषां चोच्छेदोऽसुकरो, यत आह कामा दुरतिक्कमा, जीवियं दुप्पडिवूहगं, कामकामी खलु अयं पुरिसे, से सोयइ जूरइ तिप्पइ परितप्पड़॥सूत्रम् 93 // कामा द्विविधाः- इच्छाकामा मदनकामाश्च, तत्रेच्छाकामा मोहनीयभेदहास्यरत्युद्भवाः, मदनकामा अपि मोहनीयभेदवेदोदयात् प्रादुष्ष्यन्ति, ततश्च द्विरूपाणामपि कामानां मोहनीयं कारणम्, तत्सद्भावे च न कामोच्छेद इत्यतो दुःखेनातिक्रमःअतिलङ्घनं विनाशो येषां ते तथा, ततश्चेदमुक्तं भवति- न तत्र प्रमादवता भाव्यम् / न केवलमत्र जीवितेऽपि न प्रमादवता भाव्यमिति, आह च- जीवियं इत्यादि, जीवितं-आयुष्कं तत् क्षीणं सत् दुष्प्रतिबृहणीयं दुरभावार्थे, नैव वृद्धिं नीयते इतियावत्, अथवा जीवितं-संयमजीवितं तदुष्प्रतिबृंहणीयम्, कामानुषक्तजनान्तर्वर्त्तिना दुःखेन वृद्धिं नीयते, दुःखेन निष्प्रत्यूहः संयमः