SearchBrowseAboutContactDonate
Page Preview
Page 273
Loading...
Download File
Download File
Page Text
________________ श्रीआचाराङ्गं नियुक्तिश्रीशीला० वृत्तियुतम् श्रुतस्कन्धः१ / / 235 / / श्रुतस्कन्ध:१ द्वितीयमध्ययन लोकविजयः, पञ्चमोद्देशकः सूत्रम् 91 आहारादिविधिः लद्धे आहारे अणगारो मायं जाणिज्जा, से जहेयं भगवया पवेईयं, लाभुत्ति न मजिज्जा, अलाभुत्ति न सोइज्जा, बहुंपिलधुंन निहे, परिग्गहाओ अप्पाणं अवसक्किजा // सूत्रम् 91 // लब्धे प्राप्ते सत्याहारे, आहारग्रहणंचोपलक्षणार्थम्, अन्यस्मिन्नपि वस्त्रौषधादिके अनगारः भिक्षुः मात्रांजानीयात् यावन्मात्रेण गृहीतेन गृहस्थः पुनरारम्भे न प्रवर्त्तते यावन्मात्रेण चात्मनो विवक्षितकार्यनिष्पत्तिर्भवति तथाभूतां मात्रामवगच्छेदिति भावः, एतच्च स्वमनीषिकया नोच्यत इत्यत आह-से जहेयं इत्यादि, तद्यथा- इदमुद्देशकादेरारभ्यानन्तरसूत्रं यावद्भगवता- ऐश्वर्यादिगुणसमन्वितेनार्द्धमागधया भाषया सर्वस्वभाषानुगतया सदेवमनुजायां परिषदि केवलज्ञानचक्षुषाऽवलोक्यप्रवेदितं प्रतिपादितम्, सुधर्मस्वामी जम्बूस्वामिने इदमाचष्टे / किं चान्यत्- लाभो त्ति इत्यादि, लाभो वस्त्राहारादेर्मम संवृत्त इत्यतोऽहो! अहं लब्धिमानित्येवं मदं न विदध्यात्, न च तदभावे शोकाभिभूतो विमनस्को भूयादिति, आह च- अलाभो त्ति इत्यादि, अलाभे सति शोकं न कुर्यात्, कथं?- धिग्मां मन्दभाग्योऽहं येन सर्वदानोद्यतादपि दातुर्न लभेऽहमिति, अपि तु तयोर्लाभालाभयोर्माध्यस्थ्यं भावनीयमिति, उक्तं च- लभ्यते लभ्यते साधुः, साधुरेव न लभ्यते / अलब्धे तपसो वृद्धिलब्धे तु प्राणधारणम् // 1 // इत्यादि, तदेवं पिण्डपात्रवस्त्राणामेषणाः प्रतिपादिताः, साम्प्रतं सन्निधिप्रतिषेधं कुर्वन्नाह- बहु पी त्यादि, बह्वपि लब्ध्वा न निहे त्ति न स्थापयेत्-न सन्निधिं कुर्यात्, स्तोकं तावन्न सन्निधीयत एव, बह्वपि न सन्निदध्यादित्यपिशब्दार्थः, न केवलमाहारसन्निधिं न कुर्याद्, अपरमपि वस्त्रपात्रादिकं संयमोपकरणातिरिक्तं न बिभृयादिति, आह- परि इत्यादि, परिगृह्यत इति परिग्रहो- धर्मोपकरणातिरिक्तमुपकरणं तस्मादात्मानमपष्वष्केद् अपसर्पयेद्, अथवा संयमोपकरणमपि मूर्छया 7 पर्षदि (प्र०)।
SR No.600430
Book TitleAcharang Sutram Pratham Shrutskandh
Original Sutra AuthorN/A
AuthorPunyakiritivijay
PublisherShripalnagar Jain Shwetambar Murtipujak Derasar Trust
Publication Year2012
Total Pages586
LanguageSanskrit
ClassificationManuscript & agam_acharang
File Size38 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy