________________ श्रीआचाराङ्ग नियुक्तिश्रीशीला० वृत्तियुतम् श्रुतस्कन्धः१ // 234 // सूत्रम् 90 निएंढा इति / एवं तहप्रतिज्ञ इत्यनेन सूत्रेणेदमापन्नं न क्वचित्केनचित्प्रतिज्ञा विधेया, प्रतिपादिताश्चागमे नानाविधाअभिग्रह श्रुतस्कन्धः१ विशेषाः, ततश्च पूर्वोत्तरव्याहतिरिव लक्ष्यत इत्यत आह द्वितीयमध्ययनं | लोकविजयः, दुहओ छेत्ता नियाइ, वत्थं पडिग्गहं कंबलं पायपुंछणं उग्गहणं च कडासणं एएसु चेव जाणिज्जा / / सूत्रम् 90 // पञ्चमोद्देशकः द्विधे ति रागेण द्वेषेण वा या प्रतिज्ञा तांछित्त्वा निश्चयेन नियतं वा याति नियाति ज्ञानदर्शनचारित्राख्ये मोक्षमार्गे संयमानुष्ठाने आहारादिवा भिक्षाद्यर्थं वा, एतदुक्तं भवति- रागद्वेषौ छित्त्वा प्रतिज्ञा गुणवती, व्यत्यये व्यत्यय इति, स एवम्भूतो भिक्षुः कालज्ञो विधि: बलज्ञो यावविधा छिन्दन् किं कुर्यादित्याह- वत्थं पडिग्गहं इत्यादि यावत् एएसु चेव जाणेज्जा एतेषु पुत्राद्यर्थमारम्भप्रवृत्तेषु / सन्निधिसन्निचयकरणोद्यतेषु जानीयात् शुद्धाशुद्धतया परिच्छिन्द्यात्, परिच्छेदश्चैवमात्मकः-शुद्धंगृह्णीयादशुद्धं परिहरेदितियावत्, किं तद्विजानीयात्?- वस्त्रं वस्त्रग्रहणेन वस्त्रैषणा सूचिता, तथा पतद्हं-पात्रम्, एतद्हणेन च पात्रैषणा सूचिता, कम्बलमित्यनेनाऽऽविकः पात्रनिर्योग: कल्पश्च गृह्यते, पादपुञ्छनकमित्यनेन च रजोहरणमिति, एभिश्च सूत्रैरोघोपधिरोपग्रहिकश्च सूचितः, तथैतेभ्य एव वस्त्रैषणा पात्रैषणा च नियूंढा, तथा अवगृह्यत इत्यवग्रहः, स च पञ्चधा- देवेन्द्रावग्रहः / राजावग्रहः२ गृहपत्यवग्रहः३शय्यातरावग्रहः४ साधर्मिकावग्रहश्चेति, अनेन चावग्रहप्रतिमाः सर्वाः- सूचिताः, अत एवासौ / नियूंढा, अवग्रहकल्पिकश्चास्मिन्नेव सूत्रे कल्प्यते, तथा कटासनं-कटग्रहणेन संस्तारो गृह्यते, आसनग्रहणेन चासन्दकादिविष्टरमिति, आस्यते- स्थीयते अस्मिन्निति वाऽऽसनं-शय्या ततश्च आसनग्रहणेन शय्या सूचिता, अत एव नियूंढेति / एतानि चसर्वाण्यपि वस्त्रादीन्याहारादीनि चैतेषु स्वारम्भप्रवृत्तेषु गृहस्थेषु जानीयात्, सर्वामगन्धं परिज्ञाय निरामगन्धो यथा भवसि तथा परिव्रजेरिति भावार्थः॥९०॥ एतेषुचस्वारम्भप्रवृत्तेषु गृहस्थेषु परिव्रजन्यावल्लाभंगृह्णीयादुत कश्चिनियमोऽप्यस्तीत्याह