SearchBrowseAboutContactDonate
Page Preview
Page 269
Loading...
Download File
Download File
Page Text
________________ श्रीआचाराङ्गं नियुक्तिश्रीशीला० वृत्तियुतम् श्रुतस्कन्धः१ // 231 // 80000000000888888888888 क्रीणन्तमपि न समनुजानीयाद्, अथवा निरामगन्धः परिव्रजेदित्यत्रामग्रहणेन हननकोटित्रिकं गन्धग्रहणेन पचनकोटित्रिक श्रुतस्कन्धः१ क्रयणकोटित्रिकंतु पुनः स्वरूपेणैवोपात्तम्, अतोनवकोटिपरिशुद्धमाहारं विगताङ्गारधूम भुञ्जीत, एतद्गुणविशिष्टश्च किंभूतो द्वितीयमध्ययन लोकविजयः, भवतीत्याह- से भिक्खू कालन्ने काल:- कर्तव्यावसरस्तं जानातीति कालज्ञः- विदितवेद्यः, तथा बलण्णे बलं जानातीति | पञ्चमोद्देशकः बलज्ञः, छान्दसत्वाद्दीर्घत्वम्, आत्मबलं सामर्थ्यं जानातीति यथाशक्त्यनुष्ठानविधायी, अनिगूहितबलवीर्य इत्यर्थः, तथा / सूत्रम् 89 मायन्ने यावद्दव्योपयोगिता मात्रा तां जानातीति तज्ज्ञः, तथा खेयन्ने खेदः-अभ्यासस्तेन जानातीति खेदज्ञः अथवा खेदः आहारादि विधिः श्रमः संसारपर्यटनजनितस्तं जानातीति, उक्तंच- जरामरणदौर्गत्यव्याधयस्तावदासताम् / मन्ये जन्मैव धीरस्य, भूयो भूयस्त्रपाकरम्॥ 1 // इत्यादि, अथवा क्षेत्रज्ञः संसक्तविरुद्धद्रव्यपरिहार्यकुलादिक्षेत्रस्वरूपपरिच्छेदकः, तथा खणयन्ने क्षण एव क्षणकःअवसरो भिक्षार्थमुपसर्पणादिकस्तं जानातीति, तथा विणयन्ने विनयो-ज्ञानदर्शनचारित्रौपचारिकरूपस्तं जानातीति, तथा ससमयपरसमयन्ने स्वसमयपरसमयौ जानातीति, स्वसमयज्ञो गोचरप्रदेशादौ पृष्टः सन् सुखेनैव भिक्षादोषानाचष्टे, तद्यथाषोडशोद्गमदोषाः, ते चामी- आधाकर्म 1 औद्देशिकं 2 पूतिकर्म 3 मिश्रजातं 4 स्थापना 5 प्राभृतिका 6 प्रकाशकरणं 7 क्रीतं 8 उद्यतकं 9 परिवर्तितं 10 अभ्याहृतं 11 उद्भिन्नं 12 मालापहृतं 13 आच्छेद्यं 14 अनिसृष्टं 15 अध्यवपूरकश्चेति 16 / षोडशोत्पादनदोषाः, ते चामी- धात्रीपिण्डः 1 दूतीपिण्डः 2 निमित्तपिण्डः 3 आजीवपिण्डः 4 वनीपकपिण्डः 5 चिकित्सापिण्डः 6 क्रोधपिण्डः 7 मानपिण्डः 8 मायापिण्डः 9 लोभपिण्डः 10 पूर्वसंस्तवपिण्डः 11 पश्चात्संस्तवपिण्डः // 23 12 विद्यापिण्डः 13 मन्त्रपिण्डः 14 चूर्णयोगपिण्डः 15 मूलकर्मपिण्डश्चेति 16 / तथा दशैषणादोषाः, ते चामी-शङ्कित 1 मेक्षित 2 निक्षिप्त 3 पिहित 4 संहृत 5 दायको 6 न्मिश्रा 7 ऽपरिणत 8 लिप्तो 9 ज्झित 10 दोषाः / एषां चोद्गमदोषा
SR No.600430
Book TitleAcharang Sutram Pratham Shrutskandh
Original Sutra AuthorN/A
AuthorPunyakiritivijay
PublisherShripalnagar Jain Shwetambar Murtipujak Derasar Trust
Publication Year2012
Total Pages586
LanguageSanskrit
ClassificationManuscript & agam_acharang
File Size38 MB
JainGPT.orgInstagram
Copyright © Jain Education International. All rights reserved. | Privacy Policy