SearchBrowseAboutContactDonate
Page Preview
Page 268
Loading...
Download File
Download File
Page Text
________________ श्रीआचाराङ्गं नियुक्तिश्रीशीला० वृत्तियुतम् श्रुतस्कन्धः१ // 230 // समनुजानीयादिति, आह-सव्वामगंधं इत्यादि, आमंच गन्धश्च आमगन्धं समाहार-द्वन्द्वः, सर्वं च तदामगन्धं च सर्वामगन्धम्, श्रुतस्कन्धः१ सर्वशब्दः प्रकारकात्स्न्येऽत्र गृह्यते न द्रव्यकात्स्न्ये, आम-अपरिशुद्धम्, गन्धग्रहणेन तु पूतिर्गृह्यते, ननु च पूतिद्रव्यस्याप्य द्वितीयमध्ययन लोकविजयः, शुद्धत्वात् आमशब्देनैवोपादानात्किमर्थं भेदेनोपादानमिति?, सत्यम्, अशुद्धसामान्यागृह्यते, किं तु पूतिग्रहणेनेहाधा | पञ्चमोद्देशकः कर्माद्यविशुद्धकोटिरुपात्ता, तस्याश्च गुरुतरत्वात् प्राधान्यख्यापनार्थं पुनरुपादानम्, ततश्चायमर्थ:-गन्धग्रहणेनाधाकर्म 1 सूत्रम् 89 आहारादिऔद्देशिकत्रिकं 2 पूतिकर्म 3 मिश्रजातं 4 बादरप्राभृतिका 5 अध्यवपूरक 6 श्चैते षडुद्गमदोषा अविशुद्धकोट्यन्तर्गता विधिः गृहीताः, शेषास्तु विशुद्धकोट्यन्तर्भूता आमग्रहणेनोपात्ता द्रष्टव्या इति, सर्वशब्दस्य च प्रकारकात्ाभिधायकत्वाद् येन केनचित् प्रकारेण आमंअपरिशुद्धं पूति वा भवति तत्सर्वं ज्ञपरिज्ञया ज्ञात्वा प्रत्याख्यानपरिज्ञया निरामगन्धः निर्गतावामगन्धौ यस्मात्स तथा परिव्रजेत् मोक्षमार्गे ज्ञानदर्शनचारित्राख्ये परिः-समन्ताद्गच्छेत् संयमानुष्ठानं सम्यगनुपालयेदितियावत्॥८८॥ आमग्रहणेन प्रतिषिद्धेऽपि क्रीतकृते तथाप्यल्पसत्त्वानां विशुद्धकोट्यालम्बनतया मा भूत्तत्र प्रवृत्तिरतस्तदेव नामग्राहं प्रतिनिषेधिषुराह___अदिस्समाणे कयविक्कयेसु, से ण किणे न किणावए किणंतं न समणुजाणइ, से भिक्खू कालन्ने बलन्ने मायन्ने खेयन्ने खणयन्ने विणयन्ने ससमयपरसमयन्ने भावन्ने परिग्गहं अममायमाणे कालाणुट्ठाई अपडिण्णे॥सूत्रम् 89 // क्रयश्च विक्रयश्च क्रयविक्रयौ तयोरदृश्यमानः, कीदृक्षश्च तयोरदृश्यमानो भवति?, यस्तयोर्निमित्तभूतद्रव्याभावाद // 230 // किञ्चनोऽथवा क्रयविक्रययोरदिश्यमानः- अनपदिश्यमानः, कश्च तयोरनपदिश्यमानो भवति?, यः क्रीतकृतापरिभोगी। भवतीति, आह च- से ण किणे इत्यादि, स मुमुक्षुरकिञ्चनो धर्मोपकरणमपि न क्रीणीयात् स्वतो नाप्यपरेण क्रापयेत्
SR No.600430
Book TitleAcharang Sutram Pratham Shrutskandh
Original Sutra AuthorN/A
AuthorPunyakiritivijay
PublisherShripalnagar Jain Shwetambar Murtipujak Derasar Trust
Publication Year2012
Total Pages586
LanguageSanskrit
ClassificationManuscript & agam_acharang
File Size38 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy