________________ श्रीआचाराङ्गं नियुक्तिश्रीशीला० वृत्तियुतम् श्रुतस्कन्धः१ // 229 / / समुट्ठिए अणगारे आरिए आरियपन्ने आरियदंसी अयंसंधित्ति अदक्खु, से नाईए नाइयावए न समणुजाणइ, सव्वामगंधं परिन्नाय श्रुतस्कन्ध:१ निरामगंधो परिव्वए।सूत्रम् 88 // | द्वितीयमध्ययन लोकविजयः, सम्यक् सततं सङ्गतं वा संयमानुष्ठानेनोत्थितः समुत्थितो, नानाविधशस्त्रकर्मसमारम्भोपरत इत्यर्थः, न विद्यतेऽगारं- | पञ्चमोद्देशकः गृहमस्येत्यनगारः, पुत्रदुहितृस्नुषाज्ञातिधात्र्यादिरहित इत्यर्थः, सोऽनगारः आराद्यातः सर्वहेयधर्मेभ्यःइत्यार्यः- चारित्रार्हः, सूत्रम् 88 आहारादिआर्या प्रज्ञा यस्यासावार्यप्रज्ञः, श्रुतविशेषितशेमुषीक इत्यर्थः, आर्य-प्रगुणं न्यायोपपन्नं पश्यति तच्छीलश्चेत्यार्यदर्शी पृथक् विधिः प्रहेणकश्यामाशनादिसङ्कल्परहित इत्यर्थः, अयंसंधीति सन्धानं सन्धीयते वाऽसाविति सन्धिरयं सन्धिर्यस्य साधोरसावयंसन्धिः, छान्दसत्वाद्विभक्तेरलुगित्ययंसन्धिः- यथाकालमनुष्ठानविधायी यो यस्य वर्तमानः कालः कर्त्तव्यतयोपस्थितस्तत्करणतया तमेव सन्धत्त इति, एतदुक्तं भवति- सर्वाः क्रियाः प्रत्युपेक्षणोपयोगस्वाध्यायभिक्षाचर्याप्रतिक्रमणादिकाः असपत्ना अन्योऽन्याबाधया आत्मीयकर्त्तव्यकाले करोतीत्यर्थः, इतिः हेतौ, यस्माद्यथाकालानुष्ठानविधायी तस्मादसावेव परमार्थं पश्यतीत्याह- अदक्खुत्ति, तिव्यत्ययेन एकवचनावसरे बहुवचनमकारि, ततश्चायमर्थः-यो ह्यार्य आर्यप्रज्ञ आर्यदर्शी - कालज्ञश्च स एव परमार्थमद्राक्षीन्नापर इति, पाठान्तरंवा अयं संधिमदक्खुअयं अनन्तरविशेषणविशिष्टः साधुः सन्धिं कर्त्तव्यकालं अद्राक्षीद्दृष्टवान्, एतदुक्तं भवति- यः परस्पराबाधया हिताहितप्राप्तिपरिहाररूपतया विधेयावसरं वेत्ति विधत्ते च स परमार्थं / ज्ञातवानिति, अथवा भावसन्धिः- ज्ञानदर्शनचारित्राणामभिवृद्धिः स च शरीरमृते न भवति, तदपि नोपष्टम्भककारणमन्तरेण, तस्य च सावधस्य परिहारः कर्त्तव्य इत्यत आह-से णाईए इत्यादि, स भिक्षुस्तद्वाऽकल्प्यं नाददीत नगृह्णीयान्नाप्यपरमादापयेत्ग्राहयेत्,नाप्यपरमनेषणीयमाददानं समनुजानीयादपि, अथवा सइङ्गालंसधूमंवा नाद्यात्-न भक्षयेन्नापरमादयेददन्तं वान // 229 //