SearchBrowseAboutContactDonate
Page Preview
Page 266
Loading...
Download File
Download File
Page Text
________________ श्रीआचाराङ्ग नियुक्तिश्रीशीला० वृत्तियुतम् श्रुतस्कन्धः१ // 228 // समारम्भाः शरीरं तस्मै अर्थं तदर्थं कर्मसमारम्भाः-पाकादयः क्रियन्ते, ननु च लोकार्थमारम्भाः क्रियन्त इति प्रागभिहितम्, न च श्रुतस्कन्धः१ शरीरं लोको भवति, नैतदस्ति, यतः परमार्थदृशां ज्ञानदर्शनचारित्रात्मकमात्मतत्त्वं विहायान्यत्सर्वं शरीराद्यपि पाराक्यमेव, द्वितीयमध्ययन लोकविजयः, तथाहि- बाह्यस्य पौगलिकस्याचेतनस्य कर्मणो विपाकभूतानि पञ्चापि शरीराणीत्यतः शरीरात्माऽपि लोकशब्दाभिधेय पञ्चमोद्देशक: इति, तदेवं कश्चिच्छरीरनिमित्तं कारभते, अपरस्तु पुत्रेभ्यो दुहितृभ्यःस्नुषा:- वध्वस्ताभ्यो ज्ञातयः- पूर्वापरसम्बद्धाः सूत्रम् 87 स्वजनास्तेभ्यो धात्रीभ्यो राजभ्यो दासेभ्यो दासीभ्यः कर्मकरेभ्यः कर्मकरीभ्यः आदिश्यते परिजनो यस्मिन्नागते तदातिथेयाये पुत्राद्यर्थ कर्मत्यादेश:- प्राघूर्णकस्तदर्थं कर्मसमारम्भाः क्रियन्त इति सम्बन्धः, तथा पुढो पहेणाए इत्यादि, पृथक् पृथक् पुत्रादिभ्यः प्रहेणकार्थं तथा सामासाए त्ति श्यामा-रजनी तस्यामशनं श्यामाशस्तदर्थम्, तथा पायरासाए त्ति प्रातरशनं प्रातराशस्तस्मै, कर्मसमारम्भाः क्रियन्त इति सामान्येनोक्तावपि विशेषार्थमाह- सन्निहि इत्यादि, सम्यग्निधीयत इति सन्निधिः-विनाशिद्रव्याणांदध्योदनादीनांसंस्थापनम्, तथा सम्यग् निश्चयेन चीयत इति सन्निचयः- अविनाशिद्रव्याणांअभयासितामृद्वीकादीनां सङ्गहः, सन्निधिश्चसन्निचयश्च सन्निधिसन्निचयम्, प्राकृतशैल्या पुल्लिङ्गता, अथवा सन्निधेः सन्निचयः सन्निधिसन्निचयः, स. च परिग्रहसंज्ञोदयादाजीविकाभयाद्वा धनधान्यहिरण्यादीनां क्रियत इति / स च किमर्थमित्याह- इह इत्यादि, इहे ति मनुष्यलोके एकेषा मिहलोके कृतपरमार्थबुद्धीनां मानवानां मनुष्याणां भोजनाय उपभोगार्थमिति // 87 // तदेवं विरूपरूपैः शस्त्रैरात्मपुत्राद्यर्थं कर्मसमारम्भप्रवृत्ते लोके पृथक्प्रहेणकाय श्यामाशाय प्रातराशाय केषाश्चिन्मानवानां भोजनार्थं सन्निधिसन्निचयकरणोद्यते सति साधुनां किं कर्त्तव्यमित्याह 0 तस्मै कर्मसमारम्भाः (प्र०)। 0 परस्तु (मु०)। 0 जीविकाभ्यासाद्वा (मु०)। // 228 //
SR No.600430
Book TitleAcharang Sutram Pratham Shrutskandh
Original Sutra AuthorN/A
AuthorPunyakiritivijay
PublisherShripalnagar Jain Shwetambar Murtipujak Derasar Trust
Publication Year2012
Total Pages586
LanguageSanskrit
ClassificationManuscript & agam_acharang
File Size38 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy