SearchBrowseAboutContactDonate
Page Preview
Page 265
Loading...
Download File
Download File
Page Text
________________ श्रीआचाराङ्गं नियुक्तिश्रीशीला वृत्तियुतम् श्रुतस्कन्धः१ द्वितीयमध्ययनं लोकविजयः, | पञ्चमोद्देशकः सूत्रम् 87 पुत्राधई कर्मसमारम्भाः // 227 // व्यो, लोकश्च नानाविधैरुपायैरात्मीयपुत्रकलत्राद्यर्थं आरम्भे प्रवृत्तः, तत्र साधुना संयमदेहनिमित्तं वृत्तिरन्वेषणीयेति दर्शयति जमिणं विरूवरूवेहिं सत्थेहिं लोगस्स कम्मसमारंभा कजंति, तंजहा-अप्पणो से पुत्ताणं धूयाणं सुण्हाणं नाईणं धाईणं राईणं / दासाणंदासीणं कम्मकराणं कम्मकरीणं आएसाए पुढोपहेणाए सामासाए पायरासाए, संनिहिसंनिचओकज्जइ, इहमेगेसिं माणवाणं भोयणाए / / सूत्रम् 87 // यैः अविदितवेद्यैः इद मिति सुखदुःखप्राप्तिपरिहारत्वमुद्दिश्य विरूपरूपैः नानाप्रकारस्वरूपैः शस्त्रैः प्राण्युपघातकारिभिर्द्रव्यभावभेदभिन्नैः लोकाय शरीरपुत्रदुहितृस्नुषाज्ञात्याद्यर्थं कर्मणां-सुखदुःखप्राप्तिपरिहारक्रियाणां कायिकाधिकरणिकाप्रादोषिकापारितापनिकाप्राणातिपातरूपाणां कृषिवाणिज्यादिरूपाणांवा, समारम्भा इति मध्यग्रहणाद्बहुवचननिर्देशाच्च संरम्भारम्भयोरप्युपादानम्, तेनायमर्थः- शरीरकलत्राद्यर्थं संरम्भसमारम्भारम्भाः क्रियन्ते अनुष्ठीयन्ते, तत्र संरम्भ इष्टानिष्टप्राप्तिपरिहाराय प्राणातिपातादिसङ्कल्पावेशः, तत्साधनसन्निपातकायवाग्व्यापारजनितपरितापनादिलक्षणः समारम्भः, दण्डवयव्यापारापादितचिकीर्षितप्राणातिपातादिक्रियानिवृत्तिरारम्भः, कर्मणो वा-अष्टप्रकारस्य समारम्भाः- उपार्जनोपायाः क्रियन्त इति, लोकस्येति चतुर्थ्यर्थे षष्ठी, साऽपितादर्थ्य, कः पुनरसौलोको? यदर्थं संरम्भसमारम्भारम्भाः क्रियन्त इत्याहतंजहा अप्पणो से इत्यादि, यदिवा लोकस्य तृतीयार्थे षष्ठी, यदिति हेतौ, यस्माल्लोकेन नानाविधैः शस्त्रैः कर्मसमारम्भाः क्रियन्त इत्यतस्तस्मिन् लोके साधुर्वृत्तिमन्वेषयेत्, यदर्थं च लोकेन कसमारम्भाः क्रियन्ते तद्यथेत्यादिना दर्शयति-तंजहा अप्पणो से इत्यादि, तद्यथेत्युपप्रदर्शनार्थो, नोक्तमात्रमेवान्यदप्येवंजातीयकं मित्रादिकं द्रष्टव्यम्, सेतस्यारम्भारिप्सोर्य आत्मा 8 // 227 //
SR No.600430
Book TitleAcharang Sutram Pratham Shrutskandh
Original Sutra AuthorN/A
AuthorPunyakiritivijay
PublisherShripalnagar Jain Shwetambar Murtipujak Derasar Trust
Publication Year2012
Total Pages586
LanguageSanskrit
ClassificationManuscript & agam_acharang
File Size38 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy