________________ श्रीआचाराङ्गं नियुक्तिश्रीशीला० वृत्तियुतम् श्रुतस्कन्ध:१ // 226 // अदित्सितस्तस्मादेव प्रदेशात् परिणमेत् निवर्तेत, क्षणमपि न तिष्ठेन्न दौर्मनस्यं विदध्यान्न रुण्टन्नपगच्छेत् न तां सीमन्तिनी श्रुतस्कन्धः१ मपवदेद्-धिक्ते गृहवासमिति, उक्तं च दिट्ठाऽसि कसेरुमई! अणुभूयासि कसेरुमई! पीयं चिय ते पाणिययं वरि तुह नाम न दंसणं॥ द्वितीयमध्ययन लोकविजयः, १॥इत्यादि / पठ्यते च- पडिलाभिओ परिणमेजा प्रतिलाभितः-प्राप्तभिक्षादिलाभः सन् परिणमेत्, नोच्चावाचालापैस्तत्रैवल चतुर्थोद्देशकः संस्तवं विदध्याद्, वैतालिकवद्दातारं नोत्प्रासयेदिति / उपसंहरन्नाह- एयं इत्यादि, एतत् प्रव्रज्यानिर्वेदरूपं अदानाकोपन सूत्रम् 86 भोगिनांरोगास्तोकाजुगुप्सनं प्रतिषिद्धनिवर्त्तनं मुनेरिदं मौनं-मुनिभिर्मुमुक्षुभिराचरितं त्वमप्यवाप्तानेकभवकोटिदुरापसंयमः सन् समनुवासयेः दाव सहायता सम्यग् विधत्स्वानुपालयेति विनेयोपदेश आत्मानुशासनंवा॥८६॥ इतिः परिसमाप्तौ, ब्रवीमि पूर्ववत्॥ इति लोकविजयाऽ- पञ्चमोद्देशकः ध्ययने चतुर्थोद्देशकः॥ // द्वितीयाऽध्ययने पञ्चमोद्देशकः॥ उक्त श्चतुर्थोद्देशकः, साम्प्रतं पञ्चमस्य व्याख्या प्रतन्यते, तस्य चायमभिसम्बन्धः, इह भोगान् परित्यज्य लोकनिश्रया संयमदेहप्रतिपालनार्थं विहर्त्तव्यमित्युक्तं तदत्र प्रतिपाद्यते, इह हि संसारोद्वेगवता परित्यक्तभोगाभिलाषेण मुमुक्षुणोत्क्षिप्तपञ्चमहाव्रतभारेण निरवद्यानुष्ठानविधायिना दीर्घसंयमयात्रार्थं देहपरिपालनाय लोकनिश्रया विहर्त्तव्यम्, निराश्रयस्य हि कुतो देहसाधनानि?, तदभावे धर्मश्चेति, उक्तं हि- धर्मं चरतः साधोर्लोके निश्रापदानि पञ्चापि। राजा गृहपतिरपरः षट्काया गणशरीरे च। ॥१॥साधनानि च वस्त्रपात्रान्नासनशयनादीनि, तत्रापि प्रायः प्रतिदिनमुपयोगित्वादाहारो गरीयानिति, सच लोकादन्वेष्ट O दृष्टाऽसि उदारमते! अनुभूताऽसि उदारमते! / पीतमेव ते पानीयं वरं तव नाम न दर्शनम् // 1 //