________________ श्रीआचाराङ्ग नियुक्तिश्रीशीला० वृत्तियुतम् श्रुतस्कन्धः१ // 225 // एवं पस्स मुणी! महब्भयं, नाइवाइज कंचणं, एस वीरे पसंसिए, जे न निविज्जइ आयाणाए, न मे देइ न कुप्पिज्जा थोवं लळून श्रुतस्कन्धः१ खिंसए, पडिसेहिओ परिणमिज्जा, एयं मोणं समणुवासिज्जासि ॥सूत्रम् 86 // तिबेमि // लोकविजये चतुर्थोद्देशकः // 2-4 // | द्वितीयमध्ययनं लोकविजयः, एतत् प्रत्यक्षमेव भोगाशामहाज्वरगृहीतानां कामदशावस्थात्मकं महद्भयं भयहेतुत्वात् दुःखमेव महाभयम्, तच्च मरण चतुर्थोद्देशक: कारणमिति महदित्युच्यते, एतत् मुने! पश्य सम्यगैहिकामुष्मिकापायापादकत्वेन जानीहीत्युक्तं भवति / यद्येवं तत्किं | सूत्रम् 86 भोगिनांरोगाकुर्यादित्याह- नाइवाएज इत्यादि, यतो भोगाभिलषणं महद्भयमतस्तदर्थं नातिपातयेत् न व्यथेत कञ्चन कमपि जीवमिति, दाव सहायता अस्य च शेषव्रतोपलक्षणार्थत्वान्न प्रतारयेत् कञ्चनेत्याद्यप्यायोज्यम् / भोगनिरीहः प्राणातिपातादिव्रतारूढश्च कं गुणमवाप्नोतीत्याह- एस इत्यादि, एष इति भोगाशाच्छन्दविवेचकोऽप्रमादी पञ्चमहाव्रतभारारोहणोन्नामितस्कन्धो वीरः कर्मविदारणात् प्रशंसितः स्तुतो देवराजादिभिः, क एष वीरो नाम? योऽभिष्ट्रयत इत्यत आह-जे इत्यादि, यो न निर्विद्यते न खिद्यते न जुगुप्सते, कस्मै?- आदानाय आदीयते गृह्यतेऽवाप्यते आत्मस्वतत्त्वमशेषावारककर्मक्षयाविर्भूतसमस्तवस्तुग्राहिज्ञाना(ना)बाधसुखरूपं येन तदादानं-संयमानुष्ठानं तस्मै न जुगुप्सते, तद्वा कुर्वन् सिकताकवलचर्वणदेशीयं क्वचिदलाभादौ न खेदमुपयातीति, आह-न मे इत्यादि, ममायं गृहस्थः सम्भृतसंभारोऽप्युपस्थितेऽपि दानावसरे न ददातीति कृत्वा न कुप्येत् न क्रोधवशगोभूयाद्, भावनीयं च-ममैवैषा कर्मपरिणतिरित्यलाभोदयोऽयम्, अनेन चालाभेन कर्मक्षयायोद्यतस्य मे तत्क्षपणसमर्थं तपो भावीति न किञ्चित्क्षूयते, अथापि कथञ्चित् स्तोकं प्रान्तं वा लभेत् तदपि न निन्देदित्याह- थोवं इत्यादि, स्तोकं अपर्याप्तं लद्धंलब्ध्वा न निन्देदातारं दत्तं वा, तथाहि-कतिचित्सिक्थानयने ब्रवीति-सिद्ध ओदनो भिक्षामानय ] लवणाहारो वा अस्माकं नास्तीत्यन्नं ददस्वेत्येवं अत्युद्वत्तच्छात्रवन्न विदध्यात् / किं च- पडिसेहिओ इत्यादि, प्रतिषिद्धः