________________ श्रीआचाराङ्गं नियुक्तिश्रीशीला० वृत्तियुतम् श्रुतस्कन्धः१ // 224 // | श्रुतस्कन्धः१ द्वितीयमध्ययनं लोकविजयः, चतुर्थोद्देशकः सूत्रम् 85 भोगिनां रोगादावसहायता दर्शयति- उदाहुइत्यादि, उत्-प्राबल्येनाह उदाह- उक्तवान्, कोऽसौ?-वीर:-अपगतसंसारभयस्तीर्थकृदित्यर्थः, किमुक्तवान्?, तदेव पूर्वोक्तं वाचा दर्शयति- अप्रमादः कर्त्तव्यः, क्व?- महामोहे अङ्गनाभिष्वङ्ग एव, महामोहकारणत्वान्महामोहः, तत्र प्रमादवता न भाव्यम् / आह च- अलं इत्यादि, 'अलं' पर्याप्तम्, कस्य?- कुशलस्य निपुणस्य सूक्ष्मेक्षिणः, केनालं?मद्यविषयकषायनिद्राविकथारूपेण पञ्चविधेनापि प्रमादेन, यतः प्रमादो दुःखाद्यभिगमनायोक्त इति / स्यात्-किमालम्ब्य प्रमादेनालमिति?, उच्यते- सन्ति इत्यादि, शमनं शान्तिः- अशेषकर्मापगमोऽतो मोक्ष एव शान्तिरिति, नियन्ते प्राणिनः पौनःपुन्येन यत्र चतुर्गतिके संसारे स मरण:- संसारः शान्तिश्च मरणश्च शान्तिमरणम्, समाहारद्वन्द्वस्तत् संप्रेक्ष्य पर्यालोच्य, प्रमादवतः संसारानुपरमस्तत्परित्यागाच मोक्ष इत्येतद्विचार्येति हृदयम्, सवा कुशलः प्रेक्ष्य विषयकषायप्रमादन विदध्याद्, अथवा शान्त्या- उपशमेन मरणं- मरणावधिं यावत् तिष्ठतो यत्फलं भवति तत्पर्यालोच्य प्रमादन कुर्यादिति / किं च-भेउर इत्यादि, प्रमादो हि विषयकषायाभिष्वङ्गरूपः शरीराधिष्ठानः, तच्च शरीरं भिदुरधर्मम्, स्वत एव भिद्यत इति भिदुरं स एव धर्मः- स्वभावो यस्य तद्भिदुरधर्म एतत् समीक्ष्य पर्यालोच्य प्रमादं न कुर्यादिति सम्बन्धः, एते च भोगा भुज्यमाना अपि न तृप्तये भवन्तीत्याह- नालं इत्यादि, 'नालं' न समर्था अभिलाषोच्छित्तये यथेष्टावाप्तावपि भोगाः एतत् पश्य जानीहि, अतोऽलं तव कुशल! एभिः प्रमादमयैर्दु:खकारणस्वभावैर्विषयैरुपभोगैरिति, न चैते बहुशोऽप्युपभुज्यमाना उपशमं विदधतीति, उक्तं च- यल्लोके व्रीहियवं, हिरण्यं पशवः स्त्रियः। नालमेकस्य तत्सर्वमिति मत्वा शमं कुरु // 1 // तथा उपभोगो-पायपरो वाञ्छति यः शमयितुं विषयतृष्णाम् / धावत्याक्रमितुमसौ, पुरोऽपराह्ने निजच्छायाम् // 2 // // 85 // तदेवं भोगलिप्सूनां तत्प्राप्तावप्राप्तौ च दुःखमेवेति दर्शयति