________________ श्रीआचाराङ्गं नियुक्तिश्रीशीला० वृत्तियुतम् श्रुतस्कन्धः१ / / 219 // श्रुतस्कन्धः१ द्वितीयमध्ययनं लोकविजयः, तृतीयोद्देशकः सूत्रम् 82 संयमावधानहेतवः उद्देसो पासगस्स नस्थि, बाले पुण निहे कामसमणुन्ने असमियदुक्खे दुक्खी दुक्खाणमेव आवटै अणुपरियट्टइ। सूत्रम् 82 // त्तिबेमि ॥लोकविजये तृतीयोद्देशकः॥२-३॥ उद्दिश्यते इत्युद्देशः- उपदेशः सदसत्कर्त्तव्याकर्तव्यादेशः स पश्यतीति पश्यः स एव पश्यकस्तस्य न विद्यते, स्वत एव विदितवेद्यत्वात्तस्य, अथवा पश्यतीति पश्यक:-सर्वज्ञस्तदुपदेशवर्ती वा तस्य उद्दिश्यत इत्युद्देशो- नारकादिव्यपदेशः उच्चावचगोत्रादिव्यपदेशो वा स तस्य न विद्यते, तस्य प्रागेव मोक्षगमनादिति भावः, कः पुनर्यथोपदेशकारी न भवतीत्याहबाले इत्यादि, बालो नाम रागादिमोहितः, स पुनः कषायैः कर्मभिः परीषहोपसगैर्वा निहन्यत इति निहः, निपूर्वाद्धन्तेः। कर्मणि डः, अथवा स्निह्यत इति स्निहः- स्नेहवान् रागीत्यर्थः, अत एवाह- कामसमणुन्ने कामा:- इच्छामदनरूपाः सम्यग् / मनोज्ञा यस्य स तथा, अथवा सह मनोज्ञैर्वर्त्तत इति समनोज्ञो, गमकत्वात्सापेक्षस्यापि समासः, कामैः सह मनोज्ञः कामसमनोज्ञो, यदिवा कामान् सम्यगनु-पश्चात् स्नेहानुबन्धाज्जानाति सेवत इति कामसमनुज्ञः, एवंभूतश्च किंभूतो भवतीत्याह-8 असमियदुक्खे अशमितं अनुपशमितं विषयाभिष्वङ्गकषायोत्थं दुःखं येन स तथा, यत एवाशमितदुःखोऽत एव दुःखी शारीरमानसाभ्यां दुःखाभ्याम्, तत्र शारीरं कण्टकशस्त्रगण्डलूतादिसमुत्थं मानसं प्रियविप्रयोगाप्रियसंप्रयोगेप्सितालाभदारिदौर्भाग्यदौर्मनस्यकृतं तद्हिरूपमपि दुःखं विद्यते यस्यासौ दुःखी, एवंभूतश्च सन् किमवाप्नोतीत्याह-दुक्खाणं इत्यादि, दुःखानां- शारीरमानसानामावः- पौनःपुन्यभवनमनुपरिवर्त्तते, दुःखावर्तावमग्नो बंभ्रम्यत इत्यर्थः // 82 // इतिः परिसमाप्तौ, ब्रवीमीति पूर्ववत् // इति लोकविजयाऽध्ययने तृतीयोद्देशकः॥ (r) द्रागेव (मु०)। 18888888888888888888888888888888880808000000000000088888888888888888880800008 / 219