SearchBrowseAboutContactDonate
Page Preview
Page 256
Loading...
Download File
Download File
Page Text
________________ श्रीआचाराङ्गं नियुक्तिश्रीशीला० वृत्तियुतम् श्रुतस्कन्धः१ // 218 // श्रुतस्कन्धः१ द्वितीयमध्ययनं लोकविजयः, तृतीयोद्देशकः सूत्रम् 81 संयमावधानहेतवः पारः-तट:परकूलं तद्गच्छन्तीति पारङ्गमा न पारङ्गमा अपारङ्गमाः एत इति पूर्वोक्ताः, पारगतोपदेशाभावादपारगता इति भावनीयम्, न च ते पारगतोपदेशमृते पारगमनायोद्यता अपि पारं गन्तुमलम्, अथवा गमनं गमः पारस्य पारे वा गमः पारगमः, सूत्रे त्वनुस्वारोऽलाक्षणिको, न पारगमोऽपारगमस्तस्मा अपारगमाय, असमर्थसमासोऽयम्, तेनायमर्थः- पारगमनाय तेन भवन्तीत्युक्तं भवति, ततश्चानन्तमपि कालं संसारान्तर्वर्त्तिन एवासते, यद्यपि पारगमनायोद्यमयन्ति तथापिते सर्वज्ञोपदेशविकलाः स्वरुचिविरचितशास्त्रप्रवृत्तयो नैव संसारपारंगन्तुमलम्, अथ तीरपारयोः को विशेष इति, उच्यते, तीरंमोहनीयक्षयः पारं शेषघातिक्षयः, अथवा तीरं घातिचतुष्टयापगमः पारं भवोपग्राह्यभाव इत्यर्थः, स्यात्- कथमोघतारी कुतीर्थादिको न भवति तीरपारगामी चेत्याह- आयाणिज्जं इत्यादि, आदीयन्ते- गृह्यन्ते सर्वभावा अनेनेत्यादानीयं-श्रुतं तदादाय तदुक्ते तस्मिन् संयमस्थाने न तिष्ठति, यदि वा- आदानीयं- आदातव्यं भोगाङ्गं द्विपदचतुष्पदधनधान्यहिरण्यादि तदादायगृहीत्वा, अथवा-मिथ्यात्वाविरतिप्रमादकषाययोगैरादानीयं- कर्मादाय, किंभूतो भवतीत्याह- तस्मिन् ज्ञानादिमये मोक्षमार्गे सम्यगुपदेशेवा प्रशस्तगुणस्थाने न तिष्ठति- नात्मानं विधत्ते, न केवलं सर्वज्ञोपदेशस्थाने न तिष्ठति विपर्ययानुष्ठायी च भवतीति दर्शयति-वितहं इत्यादि, वितथं-असद्भूतं दुर्गतिहेतुं तत्तथाभूतमुपदेशं प्राप्याखेदज्ञः- अकुशलः खेदज्ञो वाऽ-8 संयमस्थाने तस्मिंश्च साम्प्रतेक्ष्याचरित उपदिष्टे वा तिष्ठति, तत्रैवासंयमस्थानेऽध्युपपन्नो भवतीतियावत्, अथवा वितथमिति आदानीयभोगाङ्गव्यतिरिक्तं संयमस्थानंतत्प्राप्य खेदज्ञो-निपुणस्तस्मिन् स्थाने आदानीयस्य हन्तृणि तिष्ठति, सर्वज्ञाज्ञायामात्मानं व्यवस्थापयन्तीत्यर्थः // 80 // अयं चोपदेशोऽनवगततत्त्वस्य विनेयस्य यथोपदेशंप्रवर्त्तमानस्य दीयते, यस्त्ववगतहेयोपादेयविशेषः स यथावसरं यथाविधेयं स्वत एव विधत्त इत्याह च
SR No.600430
Book TitleAcharang Sutram Pratham Shrutskandh
Original Sutra AuthorN/A
AuthorPunyakiritivijay
PublisherShripalnagar Jain Shwetambar Murtipujak Derasar Trust
Publication Year2012
Total Pages586
LanguageSanskrit
ClassificationManuscript & agam_acharang
File Size38 MB
JainGPT.orgInstagram
Copyright © Jain Education International. All rights reserved. | Privacy Policy