________________ श्रीआचाराङ्गं नियुक्तिश्रीशीला० वृत्तियुतम् श्रुतस्कन्धः१ // 217 // सूत्रम् 81 वा गृहदाहेन वा दह्यते, कियन्ति वा कारणान्यर्थनाशे वक्ष्यन्ते इत्युपसंहरति- इति एवं बहुभिः प्रकारैरुपार्जितोऽप्यर्थो / श्रुतस्कन्धः१ नाशमुपैति, नैवोपार्जयितुरुपतिष्ठत इत्युपदिश्यते, सः अर्थस्योत्पादयिता परस्मै- अन्यस्मै अर्थाय- प्रयोजनाय अन्यप्रयोजन-2 द्वितीयमध्ययनं लोकविजयः, कृते क्रूराणि गलकर्त्तनादीनि कर्माणि अनुष्ठानानि बालः अज्ञः प्रकुर्वाणः विदधानः तेन कर्मविपाकापादितेन दुःखेन असातोदयेन तृतीयोद्देशकः (सं)मूढः अपगतविवेकः विपर्यासमुपैति अपगतसदसद्विवेकत्वात्कार्यमकार्यं मन्यते व्यत्ययं चेति, उक्तंच- रागद्वेषाभिभूतत्वा संयमावधानत्किार्याकार्यपराङ्गखः / एष मूढ इति ज्ञेयो, विपरीतविधायकः॥१॥ तदेवं मौढ्यान्धतमसाच्छादितालोकपथाः सुखार्थिनो हेतवः दुःखमृच्छन्ति जन्तव इति ज्ञात्वासर्वज्ञवचनप्रदीपमशेषपदार्थस्वरूपाविर्भावकमाललम्बिरे मुनयः, अदश्चमया नस्वमनीषिकयोच्यते सुधर्मस्वामी जम्बूस्वामिनमाह, यदि स्वमनीषिकया नोच्यते कौतस्त्यं तहीदमित्यत आह- मुणिणा इत्यादि, मनुते जगतस्त्रिकालावस्थामिति मुनि:- तीर्थकृत्तेन एतद् असकृदुच्चैर्गोत्रभवनादिकं प्रकर्षणादौ वा सर्वस्वभाषानुगामिन्या / वाचा वेदितं-कथितं वक्ष्यमाणं च प्रवेदितम्, किं तदित्याह- अणोहं इत्यादि, ओघो द्विधा द्रव्यभावभेदात्, द्रव्यौघो। नदीपूरादिको भावौघोऽष्टप्रकारं कर्म संसारोवा, तेन हि प्राण्यनन्तमपि कालमुह्यते, तं- ओघं ज्ञानदर्शनचारित्रबोहित्थस्था तरन्तीत्योघन्तरा न ओघन्तरा अनोघन्तराः, तरतेश्छान्दसत्वात् खश्, खित्त्वान्मुमागमः, एते कुतीर्थिकाः पार्श्वस्थादयो वा ज्ञानादियानविकलाः यद्यपि तेऽप्योघतरणायोद्यतास्तथापि सम्यगुपायाभावात् न ओघतरणसमर्था भवन्तीति, आह चनो य ओहं तरित्तए न च नैवोघं- भावौघं तरितुं समर्थाः, संसारौघतरणप्रत्यला न भवन्तीत्यर्थः, तथा अतीरंगमा इत्यादि, ती गच्छन्तीति तीरङ्गमाः पूर्ववत् खश्प्रत्ययादिकम्, न तीरङ्गमा अतीरङ्गमाः एत इति प्रत्यक्षभावमापन्नान् कुतीर्थिकादीन् / दर्शयति, न च ते तीरगमनायोद्यता अपि तीरं गन्तुमलं सर्वज्ञोपदिष्टसन्मार्गाभावादिति भावः, तथा अपारंगमा इत्यादि // 217