________________ श्रीआचाराङ्गं नियुक्तिश्रीशीला० वृत्तियुतम् श्रुतस्कन्धः१ // 215 // सयमावधान इति, उक्तं च शिशुमशिशुं कठोरमकठोरमपण्डितमपि च पण्डितं, धीरमधीरं मानिनम-मानिनमपगुणमपि च बहुगुणम् / यतिमयति श्रुतस्कन्धः१ प्रकाशमवलीनमचेतनमथ सचेतनं, निशि दिवसेऽपि सान्ध्यसमयेऽपि विनश्यति कोऽपि कथमपि // 1 // तदेवं सर्वंकषत्वं द्वितीयमध्ययनं लोकविजयः, मृत्योरवधार्याहिंसादिषु दत्तावधानेन भाव्यम्, किमिति?, यतः- सव्वे पाणा पियाउया प्राणशब्देनात्राभेदोपचारात् तद्वन्त एव तृतीयोद्देशक: गृह्यन्ते, सर्वे प्राणिनो- जन्तवः प्रियायुषः प्रियमायुर्येषां ते तथा, ननु च सिद्धर्व्यभिचारो, न हि ते प्रियायुषस्तदभावात्, नैष सूत्रम् 81 दोषो, यतो मुख्यजीवादिशब्दव्युदासेन प्राणशब्दस्योपचरितस्य ग्रहणं संसारिप्राण्युपलक्षणार्थमिति यत्किञ्चिदेतत्, पाठान्तरं हेतवः वा सवे पाणा पियायया आयतः-आत्माऽनाद्यनन्तत्वात् स प्रियो येषां ते तथा, सर्वेऽपि प्राणिनः प्रियात्मानः / प्रियात्मता चल सुखदुःखप्राप्तिपरिहारतया भवतीति आह च- सुहसाया दुक्खपडिकूला सुखं- आनन्दरूपमास्वादयन्तीति सुखास्वादा:सुखभोगिनः सुखैषिण इत्युक्तं भवति, दुःखं- असातं तत्प्रतिकूलयन्तीति दुःखप्रतिकूला:- दुःखद्वेषिण इत्युक्तं भवति, तथा अप्रियवधा अप्रियं-दुःखकारणं तत् घ्नन्त्यप्रियवधाः, तथा पियजीविणो प्रियं-दयितं जीवितं आयुष्कमसंयमजीवितं येषां ते तथा, जीविउकामा यत एव प्रियजीविनोऽत एव दीर्घकालं जीवितुकामाः- दीर्घकालमायुष्काभिलाषिणो दुःखाभिभूता अप्यन्त्यां दशामापन्ना जीवितुमेवाभिलषन्ति, उक्तं च रमइ विहवी विसेसे ठितिमित्तं थेववित्थरो महई। मग्गइ सरीरमहणो रोगी जीए च्चिए कयत्थो॥१॥ तदेवं सर्वोऽपि प्राणी सुखजीविताभिलाषी, तच्च नारम्भमृते, असावपि प्राण्युपघातकारी, प्राणिनां चजीवितमत्यर्थं दयितमित्यतो भूयो भूयस्तदेवोपदिश्यत इत्याह-सव्वेसिं इत्यादि, सर्वेषामविगानेन जीवितं असंयमजीवितं प्रियं दयितं यद्येवं ततः किमित्यत आह- तं परिगिज्झ तद्- असंयमजीवितं परिगृह्य आश्रित्य, किं कुर्वन्तीत्याह- दुपयं तथापि (प्र०)। 0 रमते विभववान् विशेषे स्थितिमात्रं स्तोकविस्तारोऽभिलषति। मार्गयति शरीरमधनो रोगी जीवित एव कृतार्थः // 1 //