________________ श्रीआचाराङ्गं नियुक्तिश्रीशीला० वृत्तियुतम् श्रुतस्कन्धः१ // 214 // श्रुतस्कन्धः१ | द्वितीयमध्ययन लोकविजयः, तृतीयोद्देशकः सूत्रम् 81 संयमावधानहेतवः ततो से एगया विविहं परिसिटुंसंभूयं महोवगरणं भवइ, तंपिसे एगया दायाया वा विभयन्ति, अदत्तहारो वा से अवहरति, रायाणो वा से विलुपंति, नस्सइ वा से विणस्सइ वा से, अगारदाहेण वा से डज्झइ इय, से परस्सऽट्टाए कूराई कम्माईबाले पकुवमाणे तेण दुक्खेण संमूढे विप्परियासमुवेइ, मुणिणा हु एवं पवेइयं, अणोहंतरा एए नो य ओहं तरित्तए, अतीरंगमा एए नो य तीरं गमित्तए, __ अपारंगमा एएनोय पारंगमित्तए, आयाणिज्जंच आयाय तंमिठाणे न चिट्ठइ, वितहं पप्पऽखेयन्ने तंमिठाणंमि चिट्ठइ॥सूत्रम् 81 // इणमेव इत्यादि, इदमेव पूर्वोक्तं सम्पूर्णजीवितं क्षेत्राङ्गनापरिभोगादिकं वा नावकाङ्क्षति नाभिलषन्ति, ये जना ध्रुवचारिणो ध्रुवो- मोक्षस्तत्कारणं च ज्ञानादि ध्रुवं तदाचरितुं शीलं येषां ते तथा, धूतचारिणो वा धुनातीति धूतं चारित्रं तच्चारिण इति / किंच- जाई इत्यादि, जातिश्च मरणं च समाहारद्वन्द्वस्तत् परिज्ञाय परिच्छिद्य ज्ञात्वा चरोद्युक्तो भव,क्व?- सङ्कमणे सङ्कम्यतेऽनेनेति सङ्कमणं- चारित्रं तत्र दृढो विश्रोतसिकारहितः परीषहोपसग्गैः निष्प्रकम्पो वा यदि वा अशङ्कमनाः सन् संयमं चर, न विद्यते शङ्का यस्य मनसस्तदशङ्कम्, अशझूमनो यस्यासावशङ्कमना:-तपोदमनियमनिष्फलत्वाशङ्कारहित आस्तिक्यमत्युपपेतस्तपोदमादौ प्रवर्तेत, यतस्तद्वान् राजराजादीनां पूजाप्रशंसा) भवति, न चौपशमिकसुखावाप्तफलस्य तपस्विनः समस्तद्वन्द्वदवीयसोऽसत्यपि परलोके किञ्चित् सूयते, उक्तं च- संदिग्धेऽपि परे लोके, त्याज्यमेवाशुभं बुधैः / यदि नास्ति ततः किं स्यादस्ति चेन्नास्तिको हतः॥१॥ इत्यादि। तस्मात् स्वायत्ते संयमसुखे दृढेन भाव्यम्, न चैतद्भावनीयं यथा- परुत्परारि वृद्धावस्थायां वा धर्मं करिष्यामीति, यतः- नत्थि इत्यादि, नास्ति न विद्यते कालस्य मृत्योरनागमः- अनागमनमनवसर इतियावत्, तथाहि-सोपक्रमायुषोऽसुमतो न काचित्साऽवस्था यस्यां कर्मपावकान्तवर्ती जन्तुर्जतुगोलक इव न विलीयेत 0चरेत् उद्युक्तो भवेत् (मु०)। // 214 //