________________ श्रीआचाराङ्गं नियुक्तिश्रीशीला० वृत्तियुतम् श्रुतस्कन्धः१ // 213 // सूत्रम् 81 हेतवः तत्क्षेत्रादिकं प्रेयो भवति, किं च- आरक्त ईषद्रक्तं वस्त्रादि विरक्तं विगतरागं विविधरागं वा मणिः इति रत्नवैडूर्येन्द्रनीलादि श्रुतस्कन्ध:१ कुण्डलं कर्णाभरणं हिरण्येन सह स्त्री: परिगृह्य तत्रैव क्षेत्रवास्त्वारक्तविरक्तवस्त्रमणिकुण्डलस्त्र्यादौ रक्ता गृद्धा अध्युपपन्ना द्वितीयमध्ययनं लोकविजयः, मूढा विपर्यासमुपयान्ति, वदन्ति च- नात्र तपो वा अनशनादिलक्षणं दमोवाइन्द्रियनोइन्द्रियोपशमलक्षणो नियमो वा अहिंसा- तृतीयोद्देशकः व्रतलक्षणः फलवान् दृश्यते, तथाहि- तपोनियमोपपेतस्यापि कायक्लेशभोगादिवञ्चनां विहाय नान्यत्फलमुपलभ्यते, |संयमावधानजन्मान्तरे भविष्यतीति चेद्व्युद्वाहितस्योल्लापः, किंच- दृष्टहानिरदृष्टपरिकल्पनाच पापीयसीति, तदेवं साम्प्रतेक्षी भोगसङ्गविहितैकपुरुषार्थबुद्धिः सम्पूर्णं यथावसरसम्पादितविषयोपभोगं बालः अज्ञः जीवितुकामः आयुष्कानुभवनमभिलषन् . ‘लालप्यमानः' भोगार्थमत्यर्थं लपन् वाग्दण्डं करोति, तद्यथा- अत्र तपो दमो नियतो वा फलवान्न दृश्यत इत्येवमर्थं ब्रुवन् / मूढः अबुध्यमानो हतोपहतोजातिमरणमनुपरिवर्त्तमानोजीवितक्षेत्रस्त्र्यादिलोभपरिमोहितमनाः विपर्यासमुपैति तत्त्वेऽतत्त्वाभिनिवेशं अतत्त्वे च तत्त्वाभिनिवेशं हितेऽहितबुद्धिमित्येवं सर्वत्र विपर्ययं विदधाति, उक्तं च दाराः परिभवकारा बन्धुजनो बन्धन विषं विषयाः। कोऽयं जनस्य मोहो?, ये रिपवस्तेषु सुहृदाशा॥१॥इत्यादि / / 80 // ये पुनरुन्मजच्छुभकर्मापादिताध्यवसायपुरस्कृतमोक्षास्ते किंभूता भवन्तीत्याह इणमेव नावकंखंति, जे जणा धुवचारिणो।जाइमरणं परिन्नाय, चरे संकमणे दढे // सू०गा०१॥ नत्थि कालस्स णागमो, सवे पाणा पियाउया, सुहसाया दुक्खपडिकूला अप्पियवहा पियजीविणो जीविउकामा, सव्वेसिं जीवियं पियं, तं परिगिज्झ दुपयं चउप्पयं अभिजुंजिया णं संसिंचियाणं तिविहेण जाऽविसे तत्थ मत्ता भवइ अप्पा वा बहुया वा, से तत्थ गड्डिए चिट्ठइ, भोअणाए, ®रदृष्टकल्पना (मु०)। // 213 //