SearchBrowseAboutContactDonate
Page Preview
Page 250
Loading...
Download File
Download File
Page Text
________________ श्रीआचाराङ्ग नियुक्तिश्रीशीला० वृत्तियुतम् श्रुतस्कन्धः१ // 212 // | श्रुतस्कन्धः१ द्वितीयमध्ययन लोकविजयः, तृतीयोद्देशकः सूत्रम् 80 सयमावधान हेतवः 79 // तदेवमुच्चैर्गोत्रोत्थापितमानोपहतचेता नीचैर्गोत्रविहितदीनभावो वाऽन्धबधिरभूयं वा गतः सन्नावबुध्यते कर्त्तव्यं न जानाति कर्मविपाकं नावगच्छति संसारापसदतांनावधारयति हिताहितेन गणयति औचित्यमित्यनवगततत्त्वो मूढस्तत्रैवोच्चैर्गोत्रादिके विपर्यासमुपैति, आह च सेअबुज्झमाणे हओवहए जाईमरणं अणुपरियट्टमाणे, जीवियं पुढो पियं इहमेगेसिंमाणवाणं खित्तवत्थुममायमाणाणं, आरत्तं विरत्तं मणिकुंडलं सह हिरण्णेण इत्थियाओ परिगिज्झति तत्थेव रत्ता, न इत्थ तवो वा दमो वा नियमो वा दिस्सइ, संपुण्णं बाले जीविउकामे लालप्पमाणे मूढे विप्परियासमुवेइ॥ सूत्रम् 80 // से इत्युच्चैर्गोत्राभिमानी अन्धबधिरादिभावसंवेदको वा कर्मविपाकमनवबुध्यमानो हतोपहतो भवति, नानाव्याधिसद्भावक्षतशरीरत्वाद्धतः समस्तलोकपरिभूतत्वादुपहतः, अथवोच्चैगौत्रगर्वाध्मातत्यक्तोचितविधेयविद्वज्जनवदनसमुद्भूतशब्दायशःपटहहतत्वाद्धतः अभिमानापादितानेकभवकोटिनीचैर्गोत्रोदयादुपहतः, मूढो विपर्यासमुपैतीत्युत्तरेण सम्बन्धः, तथा जातिश्च मरणं च समाहारद्वन्द्वस्तद् अनुपरिवर्त्तमानः पुनर्जन्म पुनर्मरणमित्येवमरहट्टघटीयन्त्रन्यायेन संसारोदरे विवर्त्तमानः, आवीचीमरणाद्वा प्रतिक्षणं जन्मविनाशावनुभवन् दुःखसागरावगाढो विशरारुण्यपि नित्यताकृतमतिः हितेऽप्यहिताध्यवसायो विपर्यासमुपैति, आह च- जीवितं आयुष्कानुपरमलक्षणमसंयमजीवितं वा पृथग् इति प्रत्येकं प्रतिप्राणि प्रियं दयितं वल्लभं इहे ति अस्मिन् संसारे एकेषां अविद्योपहतचेतसां मानवानामिति, उपलक्षणार्थत्वात् प्राणिनाम्, तथाहि-दीर्घजीवनाएं तास्ता रसायनादिकाः क्रियाः सत्त्वोपघातकारिणी: कुर्वते, तथा क्षेत्रंशालिक्षेत्रादि वास्तु धवलगृहादिमम इदमित्येवमाचरतां O०मानोत्पादिता (मु०)। (r) चरतां सतां तत्क्षेत्रा० (मु०)। // 212 //
SR No.600430
Book TitleAcharang Sutram Pratham Shrutskandh
Original Sutra AuthorN/A
AuthorPunyakiritivijay
PublisherShripalnagar Jain Shwetambar Murtipujak Derasar Trust
Publication Year2012
Total Pages586
LanguageSanskrit
ClassificationManuscript & agam_acharang
File Size38 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy