SearchBrowseAboutContactDonate
Page Preview
Page 248
Loading...
Download File
Download File
Page Text
________________ श्रीआचाराङ्गं नियुक्तिश्रीशीला० वृत्तियुतम् श्रुतस्कन्धः१ // 210 // समिए एयाणुपस्सी, तंजहा- अन्धत्तं बहिरतं मूयत्तं काणत्तं कुंटत्तं खुजत्तं वडभत्तं सामत्तं सबलत्तं सह पमाएणं अणेगरूवाओ |श्रुतस्कन्धः१ जोणीओ संधायइ विरूवरूवे फासे परिसंवेयइ॥सूत्रम् 79 // द्वितीयमध्ययनं लोकविजयः, अथवा भूतेषु शुभाशुभरूपं कर्म प्रत्युपेक्ष्य यत्तेषामप्रियं तन्न विदध्यात् इत्ययमुपदेशो, नागार्जुनीयास्तु पठन्ति-पुरिसे णं तृतीयोद्देशकः खलुदुक्खुवेए सुहेसए 'पुरुषो' जीवः णमिति वाक्यालङ्कारे खलुः' अवधारणे दुःखादुद्वेगो यस्य स दुःखोद्वेगः, सुखस्यैषकः / | सूत्रम् 79 सुखैषकः, याजकादित्वात्समासश्छान्दसत्वाद्वा, दुःखोद्वेगश्चासौ सुखैषकश्च दुःखोद्वेगसुषकः, सर्वोऽपि प्राणी दुःखोद्वेग-8 संयमावधान हेतवः सुखैषक एव भवत्यतो जीवप्ररूपणं कार्यम्, तच्चावनिवनपवनानलवनस्पतिसूक्ष्मबादरविकलपञ्चेन्द्रियसंज्ञीतरपर्याप्तकापर्याप्तकरूपं शस्त्रपरिज्ञायामकार्येव, तेषां च दुःखपरिजिहीर्पूणां सुखलिप्सूनामात्मौपम्यमाचरता तदुपमर्दकानि हिंसादिस्थानानि परिहरताऽऽत्मा पञ्चमहाव्रतेष्वास्थेयः, तत्परिपालनार्थं चोत्तरगुणा अप्यनुशीलनीयाः, तदर्थमुपदिश्यते- समिए एयाणुपस्सी पञ्चभिः समितिभिः समितः सन्, एतच्छुभाशुभं कर्म वक्ष्यमाणं चान्धत्वादिकं द्रष्टुं शीलं यस्येत्येतदनुदर्शी भूतेषु सातं जानीहिति सण्टङ्कः, तत्र समिति रिति इण् गता वित्यस्मात्सम्पूर्वात् क्तिन्नन्ताद्भवति, सा च पञ्चधा, तद्यथाइर्याभाषैषणाऽऽदाननिक्षेपोत्सर्गरूपाः, तत्रेर्यासमितिः प्राणव्यपरोपणव्रतपरिपालनाय, भाषासमितिरसदभिधाननियमसंसिद्धये, एषणासमितिरस्तेयव्रतपरिपालनाय, शेषद्वयं तु समस्तव्रतप्रकृष्टस्याहिंसाव्रतस्य संसिद्धये व्याप्रियते इति, तदेवं पञ्चमहाव्रतोपपेतस्तद्वृत्तिकल्पसमितिभिःसमितः सन् भावत एतद्भूतसातादिकमनुपश्यति, अथवा यदनुदय॑सौ भवति तद्यथेत्यादिना सूत्रेणैव दर्शयति अन्धत्वमित्यादि यावत् विरूपरूपे फासे परिसंवेएइ संसारोदरे पर्यटन प्राणी अन्धत्वादिका अवस्था बहुशः परिसंवेदयते, स चान्धो द्रव्यतो भावतश्च, तत्रैकेन्द्रियद्वीन्द्रियत्रीन्द्रिया द्रव्यभावान्धाः, चतुरिन्द्रियादयस्तु
SR No.600430
Book TitleAcharang Sutram Pratham Shrutskandh
Original Sutra AuthorN/A
AuthorPunyakiritivijay
PublisherShripalnagar Jain Shwetambar Murtipujak Derasar Trust
Publication Year2012
Total Pages586
LanguageSanskrit
ClassificationManuscript & agam_acharang
File Size38 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy