SearchBrowseAboutContactDonate
Page Preview
Page 247
Loading...
Download File
Download File
Page Text
________________ श्रीआचाराङ्गं नियुक्तिश्रीशीला० वृत्तियुतम् श्रुतस्कन्धः१ // 209 // श्रुतस्कन्धः१ द्वितीयमध्ययनं लोकविजयः, तृतीयोद्देशकः सूत्रम् 78 संयमावधानहेतवः विस्मयस्तेषु // 1 // जइ सोऽवि णिज्जरमओ पडिसिद्धो अट्ठमाणमहणेहिं / अवसेस मयट्ठाणा परिहरिअवा पयत्तेणं॥२॥ नाप्यवगीतस्थानावाप्तौ वैमनस्यं विदध्याद्, आह च-नो कुप्पे अदृष्टवशात्तथाभूतलोकासम्मतं जातिकुलरूपबललाभादिकमधममवाप्य न कुप्येत् न क्रोधं कुर्यात्, कतरन्नीचस्थानं शब्दादिकं वा दुःखं मया नानुभूतमित्येवमवगम्य नोद्वेगवशगेन भाव्यम्, उक्तं च अवमानात्परिभ्रंशाद्वधबन्धधनक्षयात् / प्राप्ता रोगाश्च शोकाश्च, जात्यन्तरशतेष्वपि॥१॥ संते य अविम्हइउं असोइउं पंडिएण य असंते। सक्का हु दुमोवमिअहिअएण हि धरतेण // 2 // होऊण चक्कवट्टी पुहइवई विमलपंडुरच्छत्तो। सो चेव नाम भुजो अणाहसालालओ होइ॥ 3 // एकस्मिन् वा जन्मनि नानाभूतावस्था उच्चावचाः कर्मवशतोऽनुभवति / तदेवमुच्चनीचगोत्रनिर्विकल्पमनाः अन्यदपि अविकल्पेन किं कुर्यादित्याह- भूएहिं इत्यादि, भवन्ति भविष्यन्त्यभूवन्निति च भूतानि-असुभृतस्तेषु प्रत्युपेक्ष्य पर्यालोच्य विचार्य कुशाग्रीयया शेमुष्या जानीहि- अवगच्छ, किं जानीहि?- सातं सुखं तद्विपरीतमसातमपि जानीहि, किंच कारणं सातासातयोः? एतज्जानीहि, किंचाभिलषन्त्यविगानेन प्राणिन इति, अत्र जीवजन्तुप्राण्यादिशब्दानुपयोगलक्षणद्रव्यस्य मुख्यान वाचकान्विहाय सत्तावाचिनो भूतशब्दस्योपादानेनेदमाविर्भावयति यथाऽयमुपयोगलक्षणपदार्थोऽवश्यं सत्तां बिभर्ति, साताभिलाष्यसातंच जुगुप्सते, साताभिलाषश्चशुभप्रकृतित्वाद् अतोऽपरासामपि शुभप्रकृतीनामुपलक्षणमेतदवसेयम्, अतः शुभनामगोत्रायुराद्याः कर्मप्रकृतीरनुधावत्यशुभाश्च जुगुप्सते सर्वोऽपि प्राणी॥७८॥ एवं च व्यवस्थिते सति किं विधेयमित्याह8 0 यदि सोऽपि निर्जरामदः प्रतिषिद्धोऽष्टमानमथनैः। अवशेषाणि मदस्थानानि परिहर्त्तव्यानि प्रयत्नेन // 1 // 0 सत्सु चा विस्मेतुमशोचितुं पण्डितेन चासत्सु / शक्यं हि द्रुमोपमितहृदयेन हितं धरता // 1 // भूत्वा चक्रवर्ती पृथ्वीपतिर्विमलपाण्डुरच्छत्रः। स एव नाम भूयोऽनाथशालालयो भवति॥२॥0 कर्मवशगो० (प्र०)। BOबुध्यस्व (प्र०)।
SR No.600430
Book TitleAcharang Sutram Pratham Shrutskandh
Original Sutra AuthorN/A
AuthorPunyakiritivijay
PublisherShripalnagar Jain Shwetambar Murtipujak Derasar Trust
Publication Year2012
Total Pages586
LanguageSanskrit
ClassificationManuscript & agam_acharang
File Size38 MB
JainGPT.orgInstagram
Copyright © Jain Education International. All rights reserved. | Privacy Policy