SearchBrowseAboutContactDonate
Page Preview
Page 246
Loading...
Download File
Download File
Page Text
________________ श्रीआचाराङ्गं नियुक्तिश्रीशीला० वृत्तियुतम् श्रुतस्कन्धः१ / 208 // कण्डकार्थतयाऽसुभृन्न हीनो नाप्यतिरिक्तः, एवं नीचैर्गोत्रकण्डकार्थतयाऽपीति / नागार्जुनीयास्तु पठन्ति एगमेगे खलु जीवे श्रुतस्कन्ध:१ अईअद्धाए असई उच्चागोए असई नीआगोए, कंडगट्ठयाए नो हीणे नो अइरित्ते एकैको जीवः खलुशब्दो वाक्यालङ्कारे अतीते द्वितीयमध्ययनं लोकविजयः, कालेऽसकृदुच्चावचेषु गोत्रेषूत्पन्नः, सचोच्चावचानुभागकण्डकापेक्षयान हीनो नाप्यतिरिक्त इति, तथाहि- उच्चैर्गोत्रकण्डकेभ्य: तृतीयोद्देशकः एकभविकेभ्योऽनेकभविकेभ्यो वा नीचैर्गोत्रकण्डकानि न हीनानि नाप्यतिरिक्तानीत्यतोऽवगम्योत्कर्षापकर्षों न विधेयौ, सूत्रम् 78 संयमावधान। अस्य चोपलक्षणार्थत्वात् सर्वेष्वपि मदस्थानेष्वेतदायोज्यम् / यतश्चोच्चावचेषु स्थानेषु कर्मवशादुत्पद्यन्ते, बलरूपलाभादि हेतवः मदस्थानानांचासमञ्जसमतावगम्य किंकर्तव्यमित्याह-नोऽपीहए अपिःसम्भावने सच भिन्नक्रमो, जात्यादीनां मदस्थानानामन्यतमदपि नो ईहेतापि नाभिलषेदपि अथवा नो स्पृहयेत्-नावकाङ्केदिति / तत्र यद्युच्चावचेषु स्थानेष्वसकृदुत्पन्नोऽसुमांस्ततः किमित्याह- इय संखाय इत्यादि, इतिरुपप्रदर्शने इति एतत्पूर्वोक्तनीत्योच्चावचस्थानोत्पादादिकं परिसंख्याय ज्ञात्वा को गोत्रवादी भवेद्? यथा ममोच्चैर्गोत्रं सर्वलोकमाननीयं नापरस्येत्येवंवादी को बुद्धिमान् भवेत्?, तथाहि-मयाऽन्यैश्च जन्तुभिः सर्वाण्यपि स्थानान्यनेकशः प्राप्तपूर्वाणीति, तथोच्चैर्गोत्रनिमित्तमानवादी वा को भवेत्?, न कश्चित्संसारस्वरूपपरिच्छेदीत्यर्थः, किं च- कंसि वा एगे गिज्झे अनेकशोऽनेकस्मिन् स्थानेऽनुभूते सति तन्मध्ये कस्मिन्वा एकस्मिन्नुच्चैर्गोत्रादिकेऽनवस्थितस्थानके रागादिविरदाहेकः कथं गृध्येत्?, तात्पर्यं- आसेवां विदितकर्मपरिणामो विदध्यात्, युज्येत गाद्ध्यं यदि तत्स्थान प्राप्तपूर्व नाभविष्यत्, तच्चानेकशः प्राप्तपूर्वम्, अतस्तल्लाभालाभयोः नोत्कर्षापक| विधेयाविति, आह च- तम्हा इत्यादि,यतोऽनादौ संसारे पर्यटताऽसुमताऽदृष्टायत्तान्यसकृदुच्चावचानिस्थानान्यनुभूतानि तस्मात्कथञ्चिदुच्चावचादिकं मदस्थानमवाप्य पण्डितो हेयोपादेयतत्त्वज्ञो न हृष्येत् न हर्ष विदध्याद्, उक्तं च सर्वसुखान्यपि बहुशः प्राप्तान्यटता मयाऽत्र संसारे / उच्चैःस्थानानि तथा तेन न मे
SR No.600430
Book TitleAcharang Sutram Pratham Shrutskandh
Original Sutra AuthorN/A
AuthorPunyakiritivijay
PublisherShripalnagar Jain Shwetambar Murtipujak Derasar Trust
Publication Year2012
Total Pages586
LanguageSanskrit
ClassificationManuscript & agam_acharang
File Size38 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy