SearchBrowseAboutContactDonate
Page Preview
Page 243
Loading...
Download File
Download File
Page Text
________________ श्रीआचाराङ्गं नियुक्तिश्रीशीला० वृत्तियुतम् श्रुतस्कन्ध:१ // 205 // दिकं परिहरन् कुशलो निपुणः अवगततत्त्वो यथैतस्मिन् दण्डसमुपादाने स्वमात्मानं नोपलिम्पयेस्तत्र संश्लेषं कुर्या इति, श्रुतस्कन्धः१ विभक्तिपरिणामाद्वा एतेन दण्डसमुपादानजनितकर्मणा यथा नोपलिप्यसे तथा सर्वैः प्रकारैः कुर्यास्त्वम्॥७७॥ इतिशब्दः द्वितीयमध्ययनं लोकविजयः, परिसमाप्तौ, ब्रवीमीति पूर्ववत् / / इति लोकविजयाऽध्ययने द्वितीयोद्देशकः॥ तृतीयोद्देशकः सूत्रम् 78 ॥द्वितीयाऽध्ययने तृतीयोद्देशकः॥ संयमावधान हेतवः उक्तो द्वितीयोद्देशकः, साम्प्रतं तृतीय आरभ्यते, अस्य चायमभिसम्बन्धः- इहानन्तरोद्देशके संयमे दृढत्वं कार्यमसंयमे चादृढत्वमुक्तम्, तच्चोभयमपि कषायव्युदासेन सम्पद्यते, तत्रापि मान उत्पत्तेरारभ्य उच्चैर्गोत्रोत्थापितः स्यादतस्तद्व्युदासार्थमिदमभिधीयते / अस्य चानन्तरसूत्रेण सम्बन्धः- जहेत्थ कुसले नोवलिंपेन्जासि कुशलो निपुणः सन्नस्मिन्नुच्चैर्गोत्राभिमाने / यथाऽऽत्मानं नोपलिम्पयेस्तथा विदध्यास्त्वम्, किं मत्वा?, इत्यतस्तदभिधीयते से असई उच्चागोए असई नीआगोए, नो हीणे नो अइरित्ते, नोऽपीहए, इय संखाय को गोयावाई को माणावाई?, कंसि वा एगे गिज्झा, तम्हा नो हरिसे नो कुप्पे, भूएहिं जाण पडिलेह सायं / / सूत्रम् 78 // से असई उच्चागोए असई नीआगोएत्ति स इति संसार्यसुमान् असकृद् अनेकश उच्चैर्गोत्रे मानसत्कारार्हे, उत्पन्न इति शेषः, तथा असकृन्नीचैर्गोत्रे सर्वलोकावगीते, पौनःपुन्येनोत्पन्न इति, तथाहि-नीचैर्गोत्रोदयादनन्तमपि कालं तिर्यक्ष्वास्ते, तत्र च पर्यटन् / // 205 // द्विनवतिनामोत्तरप्रकृतिसत्कर्मा संस्तथाविधाध्यवसायोपपन्न आहारकशरीरतत्सङ्घातबन्धनाङ्गोपाङ्गदेवगत्यानुपूर्वीद्वय
SR No.600430
Book TitleAcharang Sutram Pratham Shrutskandh
Original Sutra AuthorN/A
AuthorPunyakiritivijay
PublisherShripalnagar Jain Shwetambar Murtipujak Derasar Trust
Publication Year2012
Total Pages586
LanguageSanskrit
ClassificationManuscript & agam_acharang
File Size38 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy