________________ श्रीआचाराङ्गं नियुक्तिश्रीशीला० वृत्तियुतम् श्रुतस्कन्धः१ // 203 // सूत्रम् 76 संयमावधानहेतवः | सर्वे, त्यक्ता येन महात्मना। अतिथिं तं विजानीयाच्छेषमभ्यागतं विदुः॥१॥ एतदुक्तं भवति-तद्बलार्थमपि प्राणिषु दण्डो न श्रुतस्कन्ध:१ निक्षेप्तव्यः इति, एवं कृपणश्रमणार्थमपि वाच्यमिति, एवं पूर्वोक्तैः विरूपरूपैः नानाप्रकारेः पिण्डदानादिभिः कार्यैः दण्डसमादान है द्वितीयमध्ययन लोकविजयः, मिति दण्ड्यन्ते- व्यापाद्यन्ते प्राणिनो येन स दण्डस्तस्य सम्यगादानं- ग्रहणं समादानम्, तदात्मबलादिकं मम नाभविष्यत् द्वितीयोद्देशकः यद्यहमेतन्नाकरिष्यमित्येवं संप्रेक्षया पर्यालोचनया एवं संप्रेक्ष्य वा भयात् क्रियते, एवं तावदिह भवमाश्रित्य दण्डसमादानकारणमुपन्यस्तम्, आमुष्मिकार्थमपि परमार्थमजानानैर्दण्डसमादानं क्रियत इति दर्शयति- पावमोक्खो त्ति इत्यादि, पातयति पासयतीति वा पापं तस्मान्मोक्षः पापमोक्षः, इति हेतौ, यस्मात्स मम भवीष्यतीति मन्यमानः दण्डसमादानाय प्रवर्त्तत इति, तथाहि-हुतभुजि षड्जीवोपघातकारिणि शस्त्रे नानाविधोपायप्राण्युपघातात्तपापविध्वंसनाय पिप्पलशमीसमित्तिलाज्यादिकं शठव्युद्वाहितमतयो जुह्वति, तथा पितृपिण्डदानादौ बस्तादिमांसोपस्कृतभोजनादिकं द्विजातिभ्य उपकल्पयन्ति तद्भक्तशेषानुज्ञातं स्वतोऽपि भुञ्जते, तदेवं नानाविधैरुपायैरज्ञानोपहतबुद्धयः पापमोक्षार्थं दण्डोपादानेन तास्ताः क्रियाः प्राण्युपघातकारिणी: समारभमाणा अनेकभवशतकोटीदुर्मोचमघमेवोपाददत इति / किञ्च- अदुवा इत्यादि, पापमोक्ष इति मन्यमानो। दण्डमादत्त इत्युक्तम्, अथवा आशंसनं आशंसा-अप्राप्तप्रापणाभिलाषस्तदर्थ दण्डसमादानमादत्ते, तथाहि-ममैतत् परुत्परारि वा प्रेत्य वोपस्थास्यते इत्याशंसया क्रियासु प्रवर्त्तते, राजानं वाऽर्थाशाविमोहितमना अवलगति, उक्तं च आराध्य भूपतिमवाप्य / ततो धनानि, भोक्ष्यामहे किल वयं सततं सुखानि। इत्याशया धनविमोहितमानसाना, कालः प्रयाति मरणावधिरेव पुंसाम्॥१॥ एहि // 3 // 203|| गच्छ पतोत्तिष्ठ, वद मौनं समाचर। इत्याद्याशाग्रहास्तैः, क्रीडन्ति धनिनोऽर्थिभिः // 2 // इत्यादि॥ 76 // तदेवं ज्ञात्वा किं ७०तीति एवं मन्यमानः (प्र०)। 0 इत्याशया बत विमो० (प्र०)।