SearchBrowseAboutContactDonate
Page Preview
Page 240
Loading...
Download File
Download File
Page Text
________________ श्रीआचाराङ्गं नियुक्तिश्रीशीला० वृत्तियुतम् श्रुतस्कन्धः१ // 202 // हेतवः लोभं 'विनीय' निर्मूलतोऽपनीय एष एवंभूतः सन् अकर्मा अपगतघातिकर्मचतुष्टयाविर्भूतानावरणज्ञानो विशेषतो जानाति श्रुतस्कन्धः१ सामान्यतः पश्यति, एतदुक्तं भवति- एवंभूतो लोभो येन तत्क्षये मोहनीयक्षयः, मोहनीयक्षये चावश्यं भावी घातिकर्म-18 द्वितीयमध्ययनं लोकविजयः, क्षयस्तस्मिंश्च निरावरणज्ञानसद्भावस्ततोऽपि भवोपग्राहिकर्मापगम इत्यतो लोभापगमे अकर्मेत्युक्तम् / यतश्चैवम्भूतो लोभो द्वितीयोद्देशकः दुरन्तस्तद्धानौ चावश्यं कर्मक्षयस्ततः किं कर्त्तव्यमित्याह-पडिलेहाए इत्यादि, प्रत्युपेक्षणया-गुणदोषपर्यालोचनयोपपन्नः सूत्रम् 76 संयमावधानसन्नथवा लोभविपाकं प्रत्युपेक्ष्य पर्यालोच्य तदभावे गुणं च लोभं नावकाङ्क्षति नाभिलषतीति, यश्चाज्ञानोपहतान्तःकरणोऽप्रशस्तगुणमूलस्थानवर्ती विषयकषायाद्यध्युपपन्नस्तस्य पूर्वोक्तं विपरीततया सर्वंसंतिष्ठते, तथाहि- अलोभं लोभेन जुगुप्समानो लब्धान् कामानवगाहते, लोभमनपनीय निष्क्रम्य पुनरपि लोभैकमनाः सका न जानाति नापि पश्यति, अपश्यंश्चाप्रत्युपेक्षणयाऽभिकाङ्क्षति। यच्च प्रथमोद्देशकेऽप्रशस्तगुणमूलस्थानमवाचि तच्च वाच्यमिति, आह च- अहो य राओ इत्यादि, अहोरात्रं परितप्यमानः कालकालसमुत्थायी संयोगार्थी अर्थालोभी आलुम्पः सहसाकारो विनिविष्टचित्तः अत्र-शस्त्रे पृथिवीकायाधुपघातकारिणि पौनःपुन्येन वर्त्तते। किंच-से आयबले आत्मनो बलं शक्त्युपचय आत्मबलं तन्मे भावीतिकृत्वा नानाविधैरुपायैरात्मपुष्टये तास्ताः क्रियाः ऐहिकामुष्मिकोपघातकारिणीर्विधत्ते, तथाहि- मांसेन पुष्यते मांस मितिकृत्वा पञ्चेन्द्रियघातादावपि प्रवर्त्तते, अपराश्च लुम्पनादिकाः सूत्रेणैवाभिहिताः, एवं च ज्ञातिबलं स्वजनबलं मे भावीति, तथा तन्मित्रबलं मे भविष्यति येनाहमापदं सुखेनैव निस्तरिष्यामि, तत्प्रेत्यबलं मे भविष्यतीति बस्तादिकमुपहन्ति, तद्वा देवबलं भावीति पचनपाचनादिकाः क्रिया विधत्ते, राजबलंवा मे भविष्यतीति राजानमुपचरति, चौरग्रामे वा वसति चौरभागंवा प्राप्स्यामीति चौरानुपचरति, अतिथिबलं वा मे भविष्यतीत्यतिथीनुपचरति, अतिथिर्हि निःस्पृहोऽभिधीयते इति, उक्तं च तिथिपर्वोत्सवाः
SR No.600430
Book TitleAcharang Sutram Pratham Shrutskandh
Original Sutra AuthorN/A
AuthorPunyakiritivijay
PublisherShripalnagar Jain Shwetambar Murtipujak Derasar Trust
Publication Year2012
Total Pages586
LanguageSanskrit
ClassificationManuscript & agam_acharang
File Size38 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy