________________ श्रीआचाराङ्ग नियुक्तिश्रीशीला० वृत्तियुतम् श्रुतस्कन्ध:१ // 201 // (c) खण्डशः क्षप्यमाणोऽप्यनुबध्यत इति, अतस्तं लोभम्, तद्विपक्षेण अलोभेन जुगुप्समानो निन्दन्परिहरन् किं करोतीत्याह श्रुतस्कन्धः१ लद्धे कामे इत्यादि, लब्धान्' प्राप्तानिच्छामदनरूपान् कामान् नाभिगाहते न सेवते, यो हि शरीरादावपि निवृत्तलोभः स द्वितीयमध्ययनं लोकविजयः, कामाभिष्वङ्गवान्न भवति, ब्रह्मदत्तामन्त्रितचित्रवदिति, प्रधानान्त्यलोभपरित्यागेन चोपसर्जनाधस्तनपरित्यागो द्रष्टव्यः, द्वितीयोद्देशक: तद्यथा-क्रोधं क्षान्त्या जुगुप्समानो मानं माईवेन मायामार्जवेनेत्याद्यप्यायोज्यम्, लोभोपादानं तु सर्वकषायप्राधान्यख्याप- सूत्रम् 76 संयमावधाननार्थमुपाददे, तथाहि-तत्प्रवृत्तःसाध्यासाध्यविवेकविकलः कार्याकार्यविचाररहितः सन्नर्थंकदत्तदृष्टिः पापोपादानमास्थाय हेतवः सर्वाः क्रियाः अधितिष्ठतीति, तदुक्तं धावेइ रोहणं तरइ सायरं भमइ गिरिणिगुंजेसुं। मारेइ बंधवंपि हु पुरिसो जो होइ धणलुद्धो॥१॥ अडइ बहुं वहइ भरं सहइ छुहं पावमायरइ धिट्टो / कुलसीलजाइपच्चयधिइंच लोभद्दुओ चयइ॥२॥ इत्यादि, तदेवं कुतश्चिन्निमित्तात्सहापि लोभादिना निष्क्रम्य पुनर्लोभादिपरित्यागः कार्यः, अन्यस्तु लोभं विनापि प्रव्रज्यां प्रतिपद्यत इति दर्शयति विणावि लोभं निक्खम्म एस अकम्मे जाणइ पासइ, पडिलेहाए नावकंखइ, एस अणगारित्ति पवुच्चइ, अहो यराओपरितप्यमाणे कालाकालसमुट्ठाइ संजोगट्ठी अट्ठालोभी आलुंपे सहसक्कारे विणिविट्ठचित्ते इत्थ सत्थे पुणो पुणो से आयबले से नाइबले से मित्तबले से पिच्चबले से देवबलेसेरायबलेसे चोरबले से अतिहिबले से किविणबलेसेसमणबले, इच्चेएहिं विरूवरूवेहिंकजेहिं दंडसमायाणं संपेहाए भया कज्जइ, पावमुक्खुत्ति मन्नमाणे, अदुवा आसंसाए। सूत्रम् 76 / / कश्चिद्भरतादिनिःशेषतो लोभापगमाद्विनापिलोभं निष्क्रम्य प्रव्रज्यांप्रतिपद्य, पाठान्तरं वा विणइत्तु लोभं सञ्जवलनसंज्ञकमपि // 201 // ®धावति रोहणं तरति सागरं भ्राम्यति गिरिनिकुञ्जेषु / मारयति बान्धवमपि पुरुषो यो भवति धनलुब्धः // 1 // अटति बहु वहति भारं सहते क्षुधां पापमाचरति धृष्टः / कुलशीलजातिप्रत्ययधृतिश्च लोभाभिद्रुतस्त्यजति // 2 //