________________ श्रीआचाराङ्ग नियुक्तिश्रीशीला वृत्तियुतम् श्रुतस्कन्ध:१ न्विति यथोक्तानुष्ठानात्पश्चादात्मना समनुवासयेद् अधिष्ठापयेद् // 72 // इतिः परिसमाप्तौ, ब्रवीमीति, सुधर्मस्वामी जम्बूस्वामिनमिदमाह, यद्भगवता श्रीवर्धमानस्वामिनाऽर्थतोऽभ्यधायि तदेवाहं सूत्रात्मना वच्मीति // इति लोकविजयाऽध्ययने प्रथमोद्देशकः॥ श्रुतस्कन्ध:१ द्वितीयमध्ययनं लोकविजयः, द्वितीयोद्देशकः सूत्रम् 73 सयमावधान इतवः // द्वितीयाऽध्ययने द्वितीयोद्देशकः॥ उक्तः प्रथमोद्देशकः, साम्प्रतं द्वितीयस्य व्याख्या प्रतन्यते, अस्य चायमभिसम्बन्धः, इह विषयकषायमातापित्रादिलोकविजयेन मोक्षावाप्तिहेतुभूतं चारित्रं यथा सम्पूर्णभावमनुभवत्येवंरूपोऽध्ययनार्थाधिकारः प्राङ्निरदेशि, तत्र मातापित्रादिलोकविजयेन रोगजराधनभिभूतचेतसाऽऽत्मार्थः-संयमोऽनुष्ठेय इत्येतत्प्रथमोद्देशकेऽभिहितम्, इहापि तस्मिन्नेव संयमे वर्तमानस्य कदाचिन्मोहनीयोदयादरतिः स्याद्, अज्ञानकर्मलोभोदयाद्वाऽध्यात्मदोषेण संयमे न दृढत्वं भवेदित्यतोऽरत्यादिव्युदासेन यथा संयमे दृढत्वं भवति तथाऽनेन प्रतिपाद्यते, अथवा यथाऽष्टप्रकारं कापहीयते तथा अस्मिन्नध्ययने प्रतिपाद्यते इत्यध्ययनार्थाधिकारेऽभ्यधायि, तच्च कथं क्षीयत इत्याह अरई आउट्टेसे मेहावी, खणंसि मुक्के॥सूत्रम् 73 // अस्य चानन्तरसूत्रेण सम्बन्धो वाच्यः, स चायं-आयटुं समणुवासेज्जासि आत्मार्थं संयमसम्यक्तया कुर्यात्, तत्र कदाचिदरत्युद्भवो भवेत्तदर्थमाह-अरईइत्यादि, परम्परसूत्रसम्बन्धस्तु खणंजाणाहि पंडिए क्षणं-चारित्रावसरमवाप्यारतिं न कुर्यादित्याहअरई इत्यादि, आदिसूत्रसम्बन्धस्तु 'सुअं में आउसंतेणं भगवया एवमक्खायं किं तच्छुतमित्याह- अरइं आउट्टे से मेहावी