SearchBrowseAboutContactDonate
Page Preview
Page 235
Loading...
Download File
Download File
Page Text
________________ श्रीआचाराङ्गं नियुक्तिश्रीशीला० वृत्तियुतम् श्रुतस्कन्धः१ // 197 // श्रुतस्कन्धः१ द्वितीयमध्ययनं लोकविजयः, द्वितीयोद्देशकः नियुक्ति: 196 संयमावधानहेतवः रमणं रतिस्तदभावोऽरतिस्तां पञ्चविधाचारविषयां मोहोदयात् कषायाभिष्वङ्गजनितां मातापितृकलत्राद्युत्थापितां स इत्यरतिमान् मेधावी विदितासारसंसारस्वभावःसन् आवर्तेत अपवर्तेत निवर्त्तयेदित्युक्तं भवति, संयमेचारतिर्न विषयाभिष्वङ्गरतिमृते कण्डरीकस्येवेत्यत इदमुक्तं भवति- विषयाभिष्वङ्गे रतिं निवर्तेत, निवर्त्तनं चैवमुपजायते यदि दशविधचक्रवालसामाचारीविषया रतिरुत्पद्यते पौण्डरीकस्येवेति, ततश्चेदमुक्तं भवति-संयमे रतिं कुर्वीत, तद्विहितरतेस्तु न किञ्चिद्वाधायै, नापीहापरसुखोत्तरबुद्धिरिति, आह च क्षितितलशयनं वा प्रान्तभैक्षाशनं वा, सहजपरिभवो वा नीचदुर्भाषितं वा / महति फलविशेषे नित्यमभ्युद्यतानां, न मनसि न शरीरे दुःखमुत्पादयन्ति॥१॥ तणसंथारनिसण्णोऽवि मुणिवरो भठूरागमयमोहो। जं पावइ मुत्तिसुहं तं कत्तो चक्कवट्टीवि? // 2 // इत्यादि च // 73 // अत्र हि चारित्रमोहनीयक्षयोपशमादवाप्तचारित्रस्य पुनरपि तदुदयादवदिधाविषोरनेन सूत्रेणोपदेशो दीयते, तच्चावधावनं संयमाद्यैर्हेतुभिर्भवति तान्नियुक्तिकारो गाथयाऽऽचष्टे नि०- बिइउद्देसे अदढो उ संजमे कोइ हुन्ज अरईए। अन्नाणकम्मलोभाइएहिं अज्झत्थदोसेहिं॥१९६॥ B इह हि प्रथमोद्देशके बढ्यो नियुक्तिगाथा अस्मिंस्त्वियमेवैकेत्यतो मन्दबुद्धेः स्यादारेका यथा इयमपि तत्रत्यैवेत्यतो विनेयसुखप्रतिपत्त्यर्थं द्वितीयोद्देशकग्रहणमिति, कश्चित्कण्डरीकदेशीयः संयमेसप्तदशभेदभिन्ने अदृढः शिथिलोमोहनीयोदयादरत्युद्भवाद्भवेत्, मोहनीयोदयोऽप्याध्यात्मिकैर्दोषैर्भवेत्, ते चाध्यात्मिका दोषा अज्ञानलोभादयः, आदिशब्दादिच्छामदनकामानांपरिग्रहो, मोहस्याज्ञानलोभकामाद्यात्मकत्वात्तेषांचाध्यात्मिकत्वादिति गाथार्थः॥१९६॥ (द्वितीयाध्ययने द्वितीयोदेशकनियुक्तिः)॥ ननु चारतिमतो मेधाविनोऽनेन सूत्रेणोपदेशो दीयते यथा-संयमारतिमपवर्तेत, मेधावी चात्र विदित 0 तृणसंस्तारनिषण्णोऽपि मुनिवरो भ्रष्टरागमदमोहः / यत्प्राप्नोति मुक्तिसुखं कुतस्तत् चक्रवर्त्यपि? // 1 // // 197 //
SR No.600430
Book TitleAcharang Sutram Pratham Shrutskandh
Original Sutra AuthorN/A
AuthorPunyakiritivijay
PublisherShripalnagar Jain Shwetambar Murtipujak Derasar Trust
Publication Year2012
Total Pages586
LanguageSanskrit
ClassificationManuscript & agam_acharang
File Size38 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy