________________ श्रीआचाराङ्ग नियुक्तिश्रीशीला० वृत्तियुतम् श्रुतस्कन्धः१ // 194 // क्षणस्त्वजघन्योत्कृष्टस्थितावायुषो वर्तमानस्य, शेषाणांतु कर्मणांपल्योपमासङ्खयेयभागन्यूनान्तःसागरोपमकोटिकोटी- श्रुतस्कन्धः१ स्थितिकस्य जन्तोर्भवति, सचानेन क्रमेणेति, ग्रन्थिकसत्त्वेभ्योऽभव्येभ्योऽनन्तगुणया शुद्ध्या विशुद्ध्यमानोमतिश्रुतविभङ्गा | द्वितीयमध्ययन लोकविजयः, न्यतरसाकारोपयुक्तः शुद्धलेश्यात्रिकान्यतरलेश्योऽशुभकर्मप्रकृतीनां चतुःस्थानिकं रसं द्विस्थानिकतामापादयन् शुभानां प्रथमोद्देशक: च द्विस्थानिकं चतुःस्थानिकतां नयन् बध्नंश्च ध्रुवप्रकृतीः परिवर्त्तमानाश्च भवप्रायोग्या बध्नन्निति, ध्रुवकर्मप्रकृतयश्चेमाः सूत्रम् 71 इन्द्रियपञ्चधा ज्ञानावरणीयं नवधा दर्शनावरणीयं मिथ्यात्वं कषायषोडशकं भयं जुगुप्सा तैजसकार्मणशरीरे वर्णगन्धरसस्पर्शागुरु निरूपणम् लघूपघातनिर्माणनामानि पञ्चधाऽन्तरायः, एताः सप्तचत्वारिंशध्रुवप्रकृतयः, आसांसर्वदा बध्यमानत्वात्, मनुष्यतिरश्चोरन्यतरः प्रथमंसम्यक्त्वमुत्पादयन्नेता एकविंशतिः (म्)परिवर्त्तमाना बध्नाति, तद्यथा-देवगत्यानुपूर्वीद्वयपञ्चेन्द्रियजातिवैक्रियशरीराङ्गोपाङ्गद्वयसमचतुरस्रसंस्थानपराघातोच्छासप्रशस्तविहायोगतिप्रशस्तत्रसादिदशकसातावेदनीयोच्चैर्गोत्ररूपा इति, देवनारकास्तु मनुष्यगत्यानुपूर्वीद्वयौदारिकद्वयप्रथमसंहननसहितानि शुभानि बध्नन्ति तमतमानारकास्तु तिर्यग्गत्यानुपूर्वी-2 द्वयनीचैर्गोत्रसहितानीति, तदध्यवसायोपपन्नः सन्नायुष्कमबध्नन् यथाप्रवृत्तेन करणेन ग्रन्थिमासाद्यापूर्वकरणेन भित्त्वा मिथ्यात्वस्यान्तरकरणं विधायानिवृत्तिकरणेन सम्यक्त्वमवाप्नोति, तत ऊर्द्ध क्रमेण क्षीयमाणे कर्मणि प्रवर्द्धमानेषु कण्डकेषु देशविरत्यादेरवसर इति / नोकर्मभावक्षणस्त्वालस्यमोहावर्णवादस्तम्भाद्यभावे सम्यक्त्वाद्यवाप्त्यवसर इति, आलस्यादिभिस्तूपहतो लब्ध्वाऽपि संसारलङ्घनक्षम मनुष्यभवं बोध्यादिकं नाप्नोतीति, उक्तं च आलस्समोहऽवन्ना थंभा कोहा पमाय किविणत्ता। भयसोगा अन्नाणा विक्खेव कुऊहला रमणा // 1 // एएहिं कारणेहिं लभ्रूण सुदुल्लहपि माणुस्सं। न लहइ सुइं हिअकरि / आलस्यं मोहोऽवर्णः स्तम्भः क्रोधः प्रमादः कृपणता। भयशोको अज्ञानं विक्षेपः कौतूहलं रमणम् / / 1 / / एतैः कारणैर्लब्ध्वा सुदुर्लभमपि मानुष्यं ।न लभते -