________________ श्रीआचाराङ्ग नियुक्तिश्रीशीला वृत्तियुतम् श्रुतस्कन्धः१ // 193 // खणं जाणाहि पंडिए।सूत्रम् 71 // श्रुतस्कन्धः१ / द्वितीयमध्ययनं क्षणः-अवसरोधर्मानुष्ठानस्य, सचार्यक्षेत्रसुकुलोत्पत्त्यादिकः, परिवादपोषणपरिहारदोषदुष्टानांजराबालभावरोगाणाम लोकविजय:, भावे सति, तं क्षणं जानीहि अवगच्छ पण्डित आत्मज्ञ!। अथवाऽवसीदन् शिष्यः प्रोत्साह्यते- हे अनतिक्रान्तयौवन! प्रथमोद्देशकः परिवादादिदोषत्रयास्पृष्ट! पण्डित! द्रव्यक्षेत्रकालभावभेदभिन्नं क्षणं अवसरमेवंविधं जानीहि अवबुध्यस्व, तथाहि-द्रव्यक्षणो। सूत्रम् 71 इन्द्रियद्रव्यात्मकोऽवसरोजङ्गमत्वपञ्चेन्द्रियत्वविशिष्टजातिकुलरूपबलारोग्यायुष्कादिको मनुष्यभावः संसारोत्तरणसमर्थचारित्रा-2 निरूपणम् वाप्तियोग्यस्त्वयाऽवाप्तः, स चानादौ संसारे पर्यटतोऽसुमतो दुरापो भवति, अन्यत्र तु नैतच्चारित्रमवाप्यते, तथाहि-देवनारकभवयोः सम्यक्त्वश्रुतसामायिके एव, तिर्यक्षु च कस्यचिद्देशविरतिरेवेति / क्षेत्रक्षणः क्षेत्रात्मकोऽवसरो यस्मिन् क्षेत्रे / चारित्रमवाप्यते, तत्र सर्वविरतिसामायिकस्याधोलौकिकग्रामसमन्वितं तिर्यक्क्षेत्रमेव,तत्राप्यर्द्धतृतीयद्वीपसमुद्राः, तत्रापि पञ्चदशसु कर्मभूमिषु, तत्रापि भरतक्षेत्रमपेक्ष्य अर्द्धषड्विंशेषु जनपदेष्वित्यादिकः क्षेत्रक्षणः- क्षेत्ररूपोऽवसरोऽधिगन्तव्यः, अन्यस्मिंश्च क्षेत्र आद्ये एव सामायिके। कालक्षणस्तु कालरूपः क्षणोऽवसरः,स चावसर्पिण्यां तिसृषु समासु सुषमदुष्षमादुष्षमसुषमादुष्षमाख्यासु उत्सर्पिण्यांतु तृतीयचतुर्थारकयोः सर्वविरतिसामायिकस्य भवति, एतच्च प्रतिपद्यमानकं प्रत्यभ्यधायि, पूर्वप्रतिपन्नास्तु सर्वत्र तिर्यगूधिोलोके सर्वासु च समासु द्रष्टव्याः, भावक्षणस्तु द्वेधा कर्मभावक्षणो नोकर्मभावक्षणश्च, तत्र कर्मभावक्षणः कर्मणामुपशमक्षयोपशमक्षयान्यतरावाप्ताववसर उच्यते, तत्रोपशमश्रेण्यां चारित्रमोहनीय उपशमितेऽन्तम्मौहूर्त्तिक औपशमिकश्चारित्रक्षणो भवति, तस्यैव मोहनीयस्य क्षयेणान्तम्मौहूर्तिक एव छद्मस्थयथाख्यातचारित्रक्षणो भवति, क्षयोपशमेन तु क्षायोपशमिकचारित्रावसरः, सचोत्कृष्टतो देशोनांपूर्वकोटिं यावदवगन्तव्यः, सम्यक्त्व