________________ श्रीआचाराङ्ग नियुक्तिश्रीशीला० वृत्तियुतम् श्रुतस्कन्धः१ // 192 // तस्य बुभुक्षोः एकदे ति द्रव्यक्षेत्रकालभावनिमित्ताविर्भावितवेदनीयकर्मोदये रोगसमुत्पादाः ज्वरादिप्रादुर्भावाः समुत्पद्यन्त श्रुतस्कन्धः१ इत्याविर्भवन्ति / स च तैः कुष्ठराजयक्ष्मादिभिरभिभूतः सन्मग्ननासिको गलत्पाणिपादोऽविच्छेदप्रवृत्तश्वासा कुल: किंभूतो द्वितीयमध्ययन लोकविजयः, भवति इत्याह- जेहिं इत्यादि, यैःमातापित्रादिभिर्निजैः सार्द्ध संवसति त एव वा निजाः एकदा रोगोत्पत्तिकाले पूर्वमेव तं प्रथमोद्देशकः परिहरन्ति, सवा तान्निजान्पश्चात्परिभवोत्थापितविवेकः परिहरेत् त्यजेत्, तन्निरपेक्षःसेडुकवत् स्यादित्यर्थः, ते चस्वजनादयो सूत्रम् 69-70 इन्द्रियरोगोत्पत्तिकाले परिहरन्तोऽपरिहरन्तो वा न त्राणाय भवन्तीति दर्शयति- नाल मित्यादि, पूर्ववद्, रोगाद्यभिभूतान्तःकरणेन निरूपणम् चापगतत्राणेन च किमालम्ब्य सम्यक्रणेन रोगवेदनाः सोढव्याः? इत्याह जाणित्तु दुक्खं पत्तेयं सायं / / सूत्रम् 69 // ज्ञात्वा प्रत्येकं प्राणिनां दुःखं तद्विपरीतं सातं वाऽदीनमनस्केन ज्वरादिवेदनोत्पत्तिकाले स्वकृतकर्मफलमवश्यमनुभवनीयमिति मत्वा न वैक्लव्यं कार्यमिति, उक्तं च सह कलेवर! दुःखमचिन्तयन्, स्ववशता हि पुनस्तव दुर्लभा। बहुतरं चल सहिष्यसि जीव हे!, परवशो न च तत्र गुणोऽस्ति ते॥१॥॥६९॥ यावच्च श्रोत्रादिभिर्विज्ञानैः परिहीयमानैः जराजीर्णं न निजाः परिवदन्ति यावच्चानुकम्पया न पोषयन्ति रोगाभिभूतं च न परिहरन्ति तावदात्मार्थोऽनुष्ठेय इत्येतद्दर्शयति__ अणभिक्वंतं च खलु वयं संपेहाए / सूत्रम् 70 // चशब्द आधिक्ये खलुशब्दः पुनरर्थे पूर्वमभिक्रान्तं वयः समीक्ष्य मूढभावं व्रजतीति प्रतिपादितम्, अनभिक्रान्तं च पुनर्वयः // 192 // संप्रेक्ष्य आयट्ठ समणुवासेज्जासि इत्युत्तरेण सम्बन्धः आत्मार्थं आत्महितं समनुवासयेत् कुर्यादित्यर्थः / / 70 // किमनभिक्रान्तवयसैवात्महितमनुष्ठेयमुतान्येनापिइति?, परेणापि लब्धावसरेणात्महितमनुष्ठेयमित्येतद्दर्शयति