________________ श्रीआचाराङ्ग नियुक्तिश्रीशीला० वृत्तियुतम् श्रुतस्कन्धः 1| // 185 // श्रुतस्कन्धः१ द्वितीयमध्ययन लोकविजयः, प्रथमोद्देशकः सूत्रम् 64 इन्द्रियनिरूपणम् तदपि निर्वृत्तिवद् द्विधा, बाह्यमाभ्यन्तरं चेति, तत्राभ्यन्तरमणस्तावत् कृष्णशुक्लमण्डलं बाह्यमपि पत्रपक्ष्मद्वयादि, एवं शेषेष्वप्यायोजनीयमिति, भावेन्द्रियमपि लब्ध्युपयोगभेदात् द्विधा, तत्र लब्धिर्ज्ञानदर्शनावरणीयक्षयोपशमरूपा यत्सन्निधानादात्मा द्रव्येन्द्रियनिर्वृत्तिं प्रति व्याप्रियते, तन्निमित्त आत्मनो मनस्साचिव्यादर्थग्रहणं प्रति व्यापार उपयोग इति, तदत्र सत्यां लब्धौ निर्वृत्त्युपकरणोपयोगाः, सत्यांच निर्वृत्तावुपकरणोपयोगी, सत्युपकरण उपयोग इति, एतेषां च श्रोत्रादीनां कदम्बकमसूरकलम्बुकापुष्पक्षुरप्रनानासंस्थानताऽवगन्तव्येति, विषयश्च श्रोत्रेन्द्रियस्य द्वादशभ्यो योजनेभ्य आगतं शब्दं गृह्णाति चक्षुरप्येकविंशतिषु लक्षेषु सातिरेकेषु व्यवस्थितं प्रकाशकं प्रकाश्यं तु सातिरेकयोजनलक्षस्थितं रूपं गृह्णाति, शेषाणि तु नवभ्यो योजनेभ्य आगतं स्वविषयं गृह्णन्ति, जघन्यतस्त्वङ्गलासङ्ख्येयभागविषयत्वं सर्वेषाम्, अत्र च सोयपरिणाणेहि परिहायमाणेही त्यादि य उत्पत्तिं प्रति व्यत्ययेनेन्द्रियाणामुपन्यासः स एवमर्थं द्रष्टव्यः-इह संज्ञिनः पञ्चेन्द्रियस्य उपदेशदानेनाधिकृतत्वादुपदेशश्च श्रोत्रेन्द्रियविषय इतिकृत्वा तत्पर्याप्तौ च सर्वेन्द्रियपर्याप्तिः सूचिता भवति। श्रोत्रादिविज्ञानानि च वयोऽतिक्रमे परिहीयन्ते, तदेवाह-'अभिकंत' मित्यादि, अथवा श्रोत्रादिविज्ञानैरपचितैः करणभूतैः सद्भिः अभिकंतं च खलु वयं स पेहाए तत्र प्राणिनां कालकृता शरीरावस्था यौवनादिर्वयस्तज्जरामभि मृत्युं वा क्रान्तमभिक्रान्तम्, इह हि चत्वारि वयांसि-1 कुमारयौवनमध्यमवृद्धत्वानि, उक्तं च प्रथमे वयसि नाधीतं, द्वितीये नार्जितं धनम् / तृतीये न तपस्तप्तं, चतुर्थे किं करिष्यति?॥१॥ तत्राद्यवयोद्वयातिक्रमे जराभिमुखमभिक्रान्तं वयो भवति, अन्यथा वा त्रीणि वयांसि-कौमारयौवनस्थविरत्वभेदाद्, उक्तं चपिता रक्षति कौमारे, भर्ता रक्षति यौवने। पुत्राश्च स्थाविरे भावे, न स्त्री स्वातन्त्र्यमर्हति॥१॥ अन्यथा वा त्रीणि वयांसि, बालमध्य 6 चक्षुषः संख्येयभागे यद्यपि तथापि सर्वेषां विषयस्य सामान्येन विवक्षणादित्थमुक्तम् / // 185 //