SearchBrowseAboutContactDonate
Page Preview
Page 224
Loading...
Download File
Download File
Page Text
________________ श्रीआचाराङ्गं नियुक्तिश्रीशीला० वृत्तियुतम् श्रुतस्कन्धः // 186 // वृद्धत्वभेदात्, उक्तंच आषोडशाद्भवेद्बालो, यावत्क्षीरान्नवर्तकः / मध्यमः सप्ततिं यावत्परतो वृद्ध उच्यते॥१॥एतेषु वयस्सुसर्वेष्वपि | श्रुतस्कन्धः१ द्वितीयमध्ययन योपचयवत्यवस्था तामतिक्रान्तोऽतिक्रान्तवया इत्युच्यते, चः समुच्चये, न केवलं श्रोत्रचक्षुर्घाणरसनस्पर्शनविज्ञानैर्व्यस्त लोकविजयः, समस्तैर्देशतः सर्वतो वा परिहीयमाणैर्वा मौढ्यमापद्यते, वयश्चातिक्रान्तं प्रेक्ष्य पर्यालोच्य स इति प्राणी खलुरिति विशेषणे प्रथमोद्देशक: विशेषेणअत्यर्थं मौढ्यमापद्यत इति, आह च- ततो से इत्यादि, तत इति तस्मादिन्द्रियविज्ञानापचयाद्वयोऽतिक्रमणाद्वा स सूत्रम् 65 इन्द्रियइति प्राणी एकदे ति वृद्धावस्थायां मूढभावो मूढत्वं-किंकर्त्तव्यताभावमात्मनो जनयति, अथवा से तस्यासुभृतः श्रोत्रादि निरूपणम् विज्ञानानि परिहीयमाणानि मूढभावं जनयन्तीति ॥६४॥स एवं वार्द्धक्ये मूढस्वभावः सन् प्रायेण लोकावगीतो भवतीत्याह__ जेहिं वा सद्धिं संवसति ते विणं एगदा णियगा पुट्विं परिवयंति, सोऽवि ते णियए पच्छा परिवएज्जा, णालं ते तव ताणाए वा सरणाए वा, तुमंपि तेसिं णालं ताणाए वा सरणाए वा, से ण हासाय ण किड्डाए ण रतीए ण विभूसाए। सूत्रम् 65 // वाशब्दः पक्षान्तरद्योतकः, आस्तां तावदपरो लोको यैः पुत्रकलत्रादिभिः सार्धं सह संवसति, त एव भार्यापुत्रादयो णमिति वाक्यालङ्कारे एकदे ति वृद्धावस्थायां नियगा आत्मीया ये तेन समर्थावस्थायां पूर्वमेव पोषितास्ते तं परिवदंति परिसमन्ताद्वदन्ति- यथाऽयं न म्रियते नापि मञ्चकंददाति, यदिवा परिवदन्ति परिभवन्तीत्युक्तं भवति, अथवा किमनेन वृद्धेनेत्येवं परिवदन्ति, न केवलमेषाम्, तस्यात्मापि तस्यामवस्थायामवगीतो भवतीति, आह च वलिसन्ततमस्थिशेषितं, शिथिलस्नायुधृतं कडेवरम् / स्वयमेव पुमान् जुगुप्सते, किमु कान्ता कमनीयविग्रहा? ॥१॥गोपालबालाङ्गनादीनां च दृष्टान्तद्वारेणोपन्यस्तोऽर्थो / बुद्धिमधितिष्ठतीत्यतस्तदाविर्भावनाय कथानकं-कौशाम्ब्यां नगर्यां अर्थवान् बहुपुत्रो धनो नाम सार्थवाहः, तेन चैकाकिना // 186 //
SR No.600430
Book TitleAcharang Sutram Pratham Shrutskandh
Original Sutra AuthorN/A
AuthorPunyakiritivijay
PublisherShripalnagar Jain Shwetambar Murtipujak Derasar Trust
Publication Year2012
Total Pages586
LanguageSanskrit
ClassificationManuscript & agam_acharang
File Size38 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy