________________ श्रीआचाराङ्ग नियुक्तिश्रीशीला० वृत्तियुतम् श्रुतस्कन्धः१ // 184 // स्येत्यनाशङ्कनीयम्, इह तु पुनः पाणिच्छेदेऽपि तत्कार्यस्यादानलक्षणस्य दशनादिनाऽपि निर्वर्त्यमानत्वाद्यत्किञ्चिदेतत्, श्रुतस्कन्ध: 1 मनसस्तु सर्वेन्द्रियोपकारकत्वादन्तःकरणत्वमिष्यत एव, तस्य च बाह्येन्द्रियविज्ञानोपघातेनैव गतार्थत्वान्न पृथगुपादानमिति, द्वितीयमध्ययनं लोकविजयः, प्रत्येकोपादानं च क्रमोत्पत्तिविज्ञानोपलक्षणार्थम्, तथाहि- येनैवेन्द्रियेण सह मनः संयुज्यते तदेवात्मीयविषयगुणग्रहणाय प्रथमोद्देशकः प्रवर्त्तते नेतरदिति, ननु च दीर्घशष्कुलीभक्षणादौ पञ्चानामपि विज्ञानानां यौगपद्येनोपलब्धिरनुभूयते, नैतदस्ति, केवलिनोऽपि सूत्रम् 64 इन्द्रियद्वावुपयोगौ न स्तः, आस्तां तावदारातीयभागदर्शिनः पञ्चोपयोगा इति, एतच्चान्यत्र न्यक्षेण प्रतिपादितमिति नेह प्रतायते, निरूपणम् यस्तु यौगपद्येनानुभवाभासः स द्राग्वृत्तित्वान्मनसो भवतीति, उक्तं च आत्मा सहैति मनसा मन इन्द्रियेण, स्वार्थेन चेन्द्रियमिति क्रम एष शीघ्रः। योगोऽयमेव मनसः किमगम्यमस्ति?, यस्मिन्मनो व्रजति तत्र गतोऽयमात्मा // 1 // इह चायमात्मेन्द्रियलब्धिमान् / आदित्सितजन्मोत्पत्तिदेशे समयेनाहारपर्याप्तिं निवर्त्तयति, तदनन्तरमन्तर्मुहर्तेन शरीरपर्याप्तिम्, ततोऽपीन्द्रियपर्याप्तिं तावतैव कालेन, तानि च पञ्चेन्द्रियाणिस्पर्शनरसनघ्राणचक्षुःश्रोत्राणीति, तान्यपि द्रव्यभावभेदात् प्रत्येकं द्विविधानीति, तत्र द्रव्येन्द्रियं / निर्वृत्त्युपकरणभेदात् द्विधा, निर्वृत्तिरप्यान्तरबाह्यभेदात् द्विधैव, निर्वर्त्यत इति निर्वृत्तिः, केन निर्वय॑ते?, कर्मणा, तत्रोत्सेधाङ्गुलासङ्खयेयभागप्रमितानांशुद्धानामात्मप्रदेशानांप्रतिनियतचक्षुरादीन्द्रियसंस्थानेनावस्थिता या वृत्तिरभ्यन्तरा निर्वृत्तिः, तेष्वेवात्मप्रदेशेष्विन्द्रियव्यपदेशभाक्यः प्रतिनियतसंस्थानो निर्माणनाम्ना पुद्गलविपाकिना वर्द्धकिसंस्थानीयेन आरचितः। कर्णशष्कुल्यादिविशेषः अङ्गोपाङ्गनाम्ना च निष्पादित इति बाह्या निर्वृत्तिः, तस्या एव निर्वृत्तेर्द्विरूपायाः येनोपकारः क्रियते तदुपकरणम्, तच्चेन्द्रियकार्यसमर्थम्, सत्यामपि निर्वृत्तावनुपहतायांमसूराकृतिरूपायां निर्वृत्तौ तस्योपघातान्न पश्यति, ®स्वपक्षे भावमनो व्याप्रियते इत्यर्थः / // 184 //