________________ श्रीआचाराङ्ग मिति, तेन श्रोत्रेण परिः- समन्ताद् घटपटशब्दादिविषयाणि ज्ञानानि परिज्ञानानि तैः श्रोत्रपरिज्ञानर्जराप्रभावात्परिहीयमानैः श्रुतस्कन्धः१ नियुक्ति द्वितीयमध्ययन सद्भिस्ततोऽसौ- प्राणी एकदा वृद्धावस्थायां रोगोदयावसरे वा मूढभावं मूढतां कर्त्तव्याकर्त्तव्याज्ञतामिन्द्रियपाटवाभावाश्रीशीला० लोकविजयः, वृत्तियुतम् उदात्मनो जनयति, हिताहितप्राप्तिपरिहारविवेकशून्यतामापद्यत इत्यर्थः, जनयन्तीति चैकवचनावसरे तिङ तिङो भवन्ती ति प्रथमोद्देशकः श्रुतस्कन्धः१ बहुवचनमकारि, अथवा तानि वा श्रोत्रविज्ञानानि परिक्षीयमाणान्यात्मनः सदसद्विवेकविकलतामापादयन्तीति, श्रोत्रादि- सूत्रम् 64 // 183 // इन्द्रियविज्ञानानां च तृतीया प्रथमार्थे सुब्ब्यत्ययेन द्रष्टव्येति, एवं चक्षुरादिविज्ञानेष्वपि योज्यम्, अत्र च करणत्वादिन्द्रियाणामेवं निरूपणम् सर्वत्र द्रष्टव्यं- श्रोत्रेणात्मनो विज्ञानानि चक्षुषाऽऽत्मनो विज्ञानानीति, ननु च तान्येव द्रष्टुणि कुतो न भवन्ति?, उच्यते, अशक्यमेवं विज्ञातुम्, तद्विनाशे तदुपलब्धार्थस्मृत्यभावात्, दृश्यते च हृषीकोपघातेऽपि तदुपलब्धार्थस्मरणम्, तद्यथाधवलगृहान्तर्वर्तिपुरुषपञ्चवातायनोपलब्धार्थस्य तदन्यतरस्थगनेऽपि तदुपपत्तिरिति, तथाहि अहमनेन श्रोत्रेण चक्षुषा वा मन्दमर्थमुपलभे, अनेन च स्फुटतरमिति स्पष्टैव करणत्वावगतिरक्षाणाम्, यद्येवमन्यान्यपि करणानि सन्ति तानि किं नोपात्तानि?, कानि पुनस्तानि?, उच्यन्ते, वाक्पाणिपादपायूपस्थमनांसि वचनादानविहरणोत्सर्गानन्दसङ्कल्पव्यापाराणि, ततश्चैतेषामात्मोपकारकत्वेन करणत्वम्, करणत्वादिन्द्रियत्वमिति, एवं चैकादशेन्द्रियसद्भावे सति पञ्चानामेवोपादानं किमर्थमिति, आहाचार्यो नैष दोषः, इह ह्यात्मनो विज्ञानोत्पत्तौ यत् प्रकृष्टमुपकारकं तदेव करणत्वादिन्द्रियम्, एतानि तु वाक्पाण्यादीनि नैवात्मनोऽनन्यसाधारणतया करणत्वेन व्याप्रियन्ते, अथ यां काञ्चन क्रियामुपादाय करणत्वमुच्यते एवं तर्हि भ्रूदरादेरप्युत्क्षेपादिसम्भवात्करणत्वं स्यात्, किं च-इन्द्रियाणांस्वविषये नियतत्वात् नान्येन्द्रियकार्यमन्यदिन्द्रियं कर्तुमलम्, तथाहिचक्षुरेव रूपावलोकनायालंन तदभावे श्रोत्रादीनि, यस्तु रसाधुपलम्भे शीतस्पर्शादेरप्युलम्भः स सर्वव्यापित्वात् स्पर्शनेन्द्रिय-2 // 183 //