________________ श्रीआचारानं नियुक्तिश्रीशीला० वृत्तियुतम् श्रुतस्कन्धः१ // 182 // वाऽऽयुः सोपक्रमायुषां सोपक्रमं निरुपक्रमायुषां निरुपक्रमम्, यदा ह्यसुमान् स्वायुषस्त्रिभागे त्रिभागत्रिभागे वा जघन्यत श्रुतस्कन्धः१ एकेन द्वाभ्यां वोत्कृष्टतः सप्तभिरष्टभिर्वा आकषैरन्तर्मुहूर्त्तप्रमाणेन कालेनात्मप्रदेशरचनानाडिकान्तर्वर्त्तिन आयुष्ककर्म द्वितीयमध्ययन लोकविजयः, वर्गणापुद्गलान् प्रयत्नविशेषेण विधत्ते तदा निरुपक्रमायुर्भवतीति, अन्यदा तु सोपक्रमायुष्क इति, उपक्रमश्वोपक्रमणकारणै- प्रथमोद्देशकः भवति, तानि चामूनि दंडकससत्थरजू अग्गी उदगपडणं विसंवाला। सीउण्हं अरइ भयंखुहा पिवासा य वाही य॥१॥ मुत्तपुरीसनिरोहे सूत्रम् 64 | इन्द्रियजिण्णाजिण्णे य भोयणे बहुसो। घसणघोलणपीलण आउस्स उवक्कमा एते॥२॥उक्तं च स्वतोऽन्यत इतस्ततोऽभिमुखधावमानापदामहो निरूपणम् निपुणता नृणां क्षणमपीह यजीव्यते। मुखे फलमतिक्षुधा सरसमल्पमायोजितं, कियच्चिरमचर्वितं दशनसङ्कटे स्थास्यति? // 1 // उच्छ्रासावधयः प्राणाः, स चोच्छ्रासः समीरणः / समीरणाच्चलं नान्यत्, क्षणमप्यायुरद्भुतम्॥२॥ इत्यादि। येऽपि दीर्घायुष्कस्थितिका उपक्रमणकारणाभावे आयुःस्थितिमनुभवन्ति तेऽपि मरणादप्यधिकां जराभिभूतविग्रहा जघन्यतमामवस्थामनुभवन्तीति तद्यथेत्यादिना दर्शयति तंजहा-सोयपरिणाणेहिं परिहायमाणेहिंचक्खुपरिणाणेहिं परिहायमाणेहिं घाणपरिण्णाणेहिं परिहायमाणेहिं रसणापरिणाणेहिं परिहायमाणेहिं फासपरिणाणेहिं परिहायमाणेहिं अभिकंतंचखलु वयं से पेहाए तओसे एगदामूढभावंजणयंति॥सूत्रम्६४॥ शृणोति भाषापरिणतान् पुद्गलानिति श्रोत्रम्, तच्च कदम्बपुष्पाकारं द्रव्यतो भावतो भाषाद्रव्यग्रहणलब्ध्युपयोगस्वभाव (r) दण्डः कशा शस्त्रं रज्जुरग्निरुदकं पतनं विषं व्यालाः। शीतमुष्णमरतिर्भयं क्षुत्पिपासा च व्याधिश्च / / 1 / / मूत्रपुरीषनिरोधः जीर्णेऽजीर्णे च भोजने बहुशः। घर्षणं / घोलनं पीडनमायुष उपक्रमा एते // 2 // // 182 //