________________ श्रीआचाराङ्ग नियुक्तिश्रीशीला० वृत्तियुतम् श्रुतस्कन्धः१ // 180 // श्रुतस्कन्धः१ द्वितीयमध्ययन लोकविजयः, प्रथमोद्देशकः नियुक्तिः 194-195 प्रमत्तस्वरूपम् संयोगो मातापित्रादिभिर्वा तेनार्थी कालाकालसमुत्थायी भवतीति / किंच- अट्ठालोभी अर्थो रत्नकुप्यादिस्तत्र आसमन्तालोभोऽर्थालोभः स विद्यते यस्येत्यसावपि कालाकालसमुत्थायी भवति, मम्मणवणिग्वत्, तथाहि-असावतिक्रान्तार्थोपाजनसमर्थयौवनवया जलस्थलपथप्रेषितनानादेशभाण्डभृतबोहित्थगन्त्रीकोष्ट्रमण्डलिकासम्भृतसम्भारोऽपि प्रावृषि सप्तरात्रावच्छिन्नमुशलप्रमाणजलधारावर्षनिरुद्धसकलप्राणिगणसञ्चारमनोरथायां महानदीजलपूरानीतकाष्ठानि जिघृक्षुरुपभोगधावसरे निवृत्तापराशेषशुभपरिणामः केवलमर्थोपार्जनप्रवृत्त इति, उक्तं च उक्खणइखणइ निहणइ रत्तिंण सुअति दियावि या ससंको। लिंपइ ठएइ सययं लंछियपडिलंछियं कुणइ॥१॥ भुंजसु न ताव रिक्को जेमेउं नविय अज्ज मज्जीहं। नवि य वसीहामि घरे कायवमिणं बहुं अजं // २॥पुनरपि लोभिनोऽशुभव्यापारानाह- आलुपे आसमन्ताल्लुम्पतीत्यालुम्पः, स हि लोभाभिभूतान्तःकरणोऽपगतसकलकर्त्तव्याकर्त्तव्यविवेकोऽर्थलोभैकदत्तदृष्टिरैहिकामुष्मिकविपाककारिणीर्निर्लाञ्छनगलकर्तनचौर्यादिकाः क्रियाः करोति, अन्यच्च- सहसक्कारे करणं कारः, असमीक्षितपूर्वापरदोषं सहसा करणं सहसाकारः स विद्यते यस्येत्यर्श आदिभ्योऽच्, (पा० 5-2-127) अथवा छान्दसत्वात्कर्तर्येव घञ्, करोतीति कारः, तथाहि-लोभतिमिराच्छादितदृष्टिरथैकमनाः शकुन्तवच्छराघातमनालोच्य पिशिताभिलाषितया सन्धिच्छेदनादितो विनश्यति, लोभाभिभूतो हाथैकदृष्टिस्तन्मनास्तदर्थोपयुक्तोऽर्थमेव पश्यति नापायान्, आह च- विणिविट्ठचित्ते विविधं अनेकधा निविष्टं स्थितमवमाढमर्थोपार्जनोपाये मातापित्राद्यभिष्वङ्गेवाशब्दादिविषयोपभोगेवा चित्तं-अन्तःकरणं यस्य स तथा, पाठान्तरं वा विणिविठ्ठचिट्टे ●उत्खनति खनति निदधाति (हन्ति) रात्रौ न स्वपिति दिवाऽपि च सशङ्कः / लिम्पति स्थगयति सततं लाञ्छितप्रतिलाञ्छितं करोति॥१॥ भुङ न तावन्निापारो जिमितुं नापि चाद्य मझ्यामि / नापि च वत्स्यामि गृहे कर्त्तव्यमिदं बह्वद्य // 2 // 180 //