SearchBrowseAboutContactDonate
Page Preview
Page 217
Loading...
Download File
Download File
Page Text
________________ श्रीआचाराङ्ग नियुक्तिश्रीशीला० वृत्तियुतम् श्रुतस्कन्धः१ // 179 // संसारं नारकतिर्यग्नरामरलक्षणं मातापितृभार्यादिस्नेहलक्षणं वा छेत्तुमना उन्मूलयिषुरष्टप्रकारं कर्मोन्मूलयेत्, तदुन्मूल- श्रुतस्कन्धः१ नार्थं च तत्कारणभूतान् कषायानुन्मूलयेत, कषायापगमनाय च मातापित्रादिगतं स्नेहं जह्यात्, यस्मान्मातापित्रादिसंयोगा द्वितीयमध्ययनं लोकविजयः, भिलाषिणोऽर्थे रत्नकुप्यादिके गृद्धाः- अध्युपपन्ना जन्मजरामरणादिकानि दुःखान्यसुभृतः प्राप्नुवन्तीति गाथाद्वयार्थः प्रथमोद्देशकः // 194-195 // तदेवंकषायेन्द्रियप्रमत्तोमातापित्राद्यर्थमर्थोपार्जनरक्षणतत्परोदुःखमेव केवलमनुभवतीत्याह- अहो इत्यादि, नियुक्तिः 194-195 अहश्चसम्पूर्ण रात्रिंच, चशब्दात्पक्षमासंच, निवृत्तशुभाध्यवसाय: परिसमन्तात्तप्यमानः परितप्यमानः सन् तिष्ठति, तद्यथा प्रमत्तस्वरूपम् कइया वच्चइ सत्थो? किं भण्डं कत्थ कित्तिया भूमी। को कयविक्कयकालो निविसइ किं कहिं केण?॥१॥ इत्यादि, स च परितप्यमानः किम्भूतो भवतीत्याह-काले त्यादि, काल:- कर्त्तव्यावसरस्तद्विपरीतोऽकालः सम्यगुत्थातुंअभ्युद्यन्तुंशीलमस्येति समुत्थायीति पदार्थः, वाक्यार्थस्तु काले कर्त्तव्यावसरेऽकाले तद्विपर्यासे समुत्तिष्ठते अभ्युद्यतमनुष्ठानं करोति तच्छीलश्चेति, कर्त्तव्यावसरेन करोत्यन्यदाच विदधातीति, यथा वा काले करोत्येवमकालेऽपीति, यथा वाऽनवसरेन करोत्येवमवसरेऽपीति, अन्यमनस्कत्वादपगतकालाकालविवेक इति भावना, यथा प्रद्योतेन मृगापतिरपगतर्भतृका सती ग्रहणकालमतिवाह्य कृतप्राकारादिरक्षा जिघृक्षितेति, यस्तु पुनः सम्यक्कालोत्थायी भवति स यथाकालं परस्परानाबाधया सर्वाः क्रियाः करोतीति, तदुक्तं मासैरष्टभिरह्ना च, पूर्वेण वयसाऽऽयुषा / तत्कर्त्तव्यं मनुष्येण येनान्ते सुखमेधते॥१॥धर्मानुष्ठानस्य च न कश्चिदकालो मृत्योरिवेति / किमर्थं पुनः कालाकालसमुत्थायी भवतीत्याह-संजोगट्ठी संयुज्यते संयोजनंवा संयोगोऽर्थः- प्रयोजनंसंयोगार्थः // 179 // सोऽस्यास्तीति संयोगार्थी, तत्र धनधान्यहिरण्यद्विपदचतुष्पदराज्यभार्यादिःसंयोगस्तेनार्थी तत्प्रयोजनी, अथवा शब्दादिविषयः / 0 कदा व्रजति सार्थः किं भाण्डं कुत्र कियती भूमिः। कः क्रयविक्रयकालो निर्विषयति (निर्विशति) किं क्व केन? / / 1 / /
SR No.600430
Book TitleAcharang Sutram Pratham Shrutskandh
Original Sutra AuthorN/A
AuthorPunyakiritivijay
PublisherShripalnagar Jain Shwetambar Murtipujak Derasar Trust
Publication Year2012
Total Pages586
LanguageSanskrit
ClassificationManuscript & agam_acharang
File Size38 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy