SearchBrowseAboutContactDonate
Page Preview
Page 215
Loading...
Download File
Download File
Page Text
________________ श्रीआचाराङ्गं नियुक्तिश्रीशीला० वृत्तियुतम् श्रुतस्कन्धः१ // 177 // प्रमत्तस्वरूपम् गुणे वर्त्तते स एव संसारमूलकषायादिस्थानादौ वर्तते, एतदेव द्वितीयसूत्रापेक्षया व्यत्ययेन प्राग्वदायोज्यम्, अनन्तगम श्रुतस्कन्धः१ पर्यायत्वात् सूत्रस्यैवमपि द्रष्टव्यं-यो गुणः स एव मूलं स एव च स्थानम्, यन्मूलं तदेव गुणः स्थानमपि तदेव, यत्स्थानं तदेव द्वितीयमध्ययनं लोकविजयः, गुणो मूलमपि तदेवेति, यो गुणः शब्दादिकोऽसावेव संसारस्य कषायकारणत्वान्मूलं स्थानमप्यसावेव इत्येवमन्येष्वपि प्रथमोद्देशकः विकल्पेषु योज्यम्, विषयनिर्देशे च विषय्यप्याक्षिप्तो, यो गुणे वर्त्तते स मूले स्थाने चेत्येवं सर्वत्र द्रष्टव्यम्, इह च सर्वज्ञ सूत्रम् 63 प्रणीतत्वादनन्तार्थता सूत्रस्यावगन्तव्या, तथाहि- मूलमत्र कषायादिकमुपन्यस्तं कषायाश्च क्रोधादयश्चत्वारः, क्रोधोऽप्यनन्तानुबन्ध्यादिभेदेन चतुर्द्धा, अनन्तानुबन्धिनोऽप्यसङ्खयेयलोकाकाशप्रदेशप्रमाणानि बन्धाध्यवसायस्थानान्यनन्ताश्च तत्पर्यायास्तेषांच प्रत्येकंस्थानगुणनिरूपणेनानन्तार्थता सूत्रस्य सम्पद्यते, साच छद्मस्थेन सर्वायुषाऽप्यविषयत्वा (दनन्तत्वा) चाशक्या दर्शयितुम्, दिग्दर्शनं तु कृतमेवातोऽनया दिशा कुशाग्रीयशेमुष्या गुणमूलस्थानानां परस्परतः कार्यकारणभाव: संयोजना च कार्येति / तदेवं य एव गुणः स एव मूलस्थानं यदेव मूलस्थानं स एव गुण इत्युक्तम्, ततः किमित्यत आह- इति से गुणट्ठी महया इत्यादि, इतिहेतौ यस्माच्छब्दादिगुणपरिणत आत्मा कषायमूलस्थाने वर्त्तते, सर्वोऽपि च प्राणी गुणार्थी व गुणप्रयोजनी गुणानुरागीत्यतस्तेषां गुणानामप्राप्तौ प्राप्तिनाशे वा कासाशोकाभ्यां स प्राणी महता अपरिमितेन परिसमन्तात्तापः परितापस्तेन शारीरमानसस्वभावेन दुःखेनाभिभूतः सन् पौनः पुन्येन तेषु तेषु स्थानेषु वसेत् तिष्ठेदुत्पद्येत, किम्भूतः सन्?-प्रमत्तः। प्रमादश्च रागद्वेषात्मको, द्वेषश्च प्रायो नरागमृते, रागोऽप्युत्पत्तेरारभ्यानादिभवाभ्यासान्मातापित्रादिविषयो भवतीति दर्शयति- माया मे इत्यादि, तत्र मातृविषयो रागः संसारस्वभावादुपकारकर्तृत्वाद्वोपजायते, रागे च सति मदीया माता क्षुत्पिपासादिकां वेदनां मा प्रापदित्यतः कृषिवाणिज्यसेवादिकां प्राण्युपघातरूपां क्रियामारभते, तदुपघात - // 177 //
SR No.600430
Book TitleAcharang Sutram Pratham Shrutskandh
Original Sutra AuthorN/A
AuthorPunyakiritivijay
PublisherShripalnagar Jain Shwetambar Murtipujak Derasar Trust
Publication Year2012
Total Pages586
LanguageSanskrit
ClassificationManuscript & agam_acharang
File Size38 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy