SearchBrowseAboutContactDonate
Page Preview
Page 214
Loading...
Download File
Download File
Page Text
________________ श्रीआचाराङ्ग नियुक्तिश्रीशीला० वृत्तियुतम् श्रुतस्कन्धः 1 // 176 // श्रुतस्कन्धः१| द्वितीयमध्ययनं लोकविजयः, प्रथमोद्देशकः सूत्रम् 63 प्रमत्तस्वरूपम् वा कामस्तस्य स्थानं शब्दादिको गुणः, अथवा मूलं-शब्दादिको विषयगणस्तस्य स्थानमिष्टानिष्टविषयगुणभेदेन व्यवस्थितो गुणरूपः संसार एव, आत्मा वा शब्दाधुपयोगानन्यत्वाद् गुणः, अथवा मूलं-संसारस्तस्य शब्दादयः स्थानं कषाया वा, गुणोऽपि शब्दादिकः कषायपरिणतो वाऽऽत्मेति, यदिवा मूलं संसारस्य शब्दादिकषायपरिणतः सन्नात्मा तस्य स्थानं शब्दादिकम्, गुणोऽप्यसावेवेति, ततश्च सर्वथा य एव गुणः स एव मूलस्थानं वर्त्तते। ननु च वर्त्तनक्रियायाः सूत्रेऽनुपादानात् / कथमाक्षेप इति?, उच्यते, यत्र हि काचिद्विशेषक्रिया नैवोपादायि तत्र सामान्यक्रियामस्ति भवति विद्यते वर्तत इत्यादिकामुपादाय वाक्यं परिसमाप्यते, एवमन्यत्रापि द्रष्टव्यमिति / अथवा मूलमित्याचं प्रधानं वा, स्थानमिति कारणम्, मूलं च तत्कारणं चेति विगृह्य कर्मधारयः, ततश्च य एव शब्दादिको गुणः स एव मूलस्थानं संसारस्य आद्यं प्रधानं वा कारणमिति, शेषं पूर्ववदिति / साम्प्रतमनयोरेव गुणमूलस्थानयोर्नियम्यनियामकभावंदर्शयंस्तदुपात्तानां विषयकषायादीनांबीजाङ्करन्यायेन परस्परतः कार्यकारणभावं सूत्रेणैव दर्शयति-जे मूलट्ठाणे से गुणे त्ति, यदेव संसारमूलानां कर्ममूलानांवा कषायाणांस्थानमाश्रयः शब्दादिको गुणोऽप्यसावेव, अथवा कषायमूलानांशब्दादीनां यत्स्थानं कर्म संसारो वा तत्तत्स्वभावापत्ते: गुणोऽप्यसावेवेति, अथवा शब्दादिकषायपरिणाममूलस्य संसारस्य कर्मणो वा यत्स्थानं मोहनीयं कर्म शब्दादिकषायपरिणतो वाऽऽत्मेति तद्णावाप्तेः गुणोऽप्यसावेव, यदिवा-संसारकषायमूलस्यात्मनो यत्स्थानं विषयाभिष्वङ्गोऽसावपि शब्दादिविषयत्वाद् गुणरूप एवेति / अत्र च विषयोपादानेन विषयिणोऽप्याक्षेपात् सूचनार्थत्वाच्च सूत्रस्येत्येवमपि द्रष्टव्यं-यो गुणे गुणेषु वा वर्त्तते स मूलस्थाने मूलस्थानेषु वा वर्त्तते, यो मूलस्थानादौ वर्त्तते स एव गुणादौ वर्त्तत इति, य एव जन्तुः शब्दादिके प्राग्व्यावर्णितस्वरूपे 0 शब्दादिको विषयगुणः....विषयगण (मु०)। 0 कथं प्रक्षेप (मु०)। 176 //
SR No.600430
Book TitleAcharang Sutram Pratham Shrutskandh
Original Sutra AuthorN/A
AuthorPunyakiritivijay
PublisherShripalnagar Jain Shwetambar Murtipujak Derasar Trust
Publication Year2012
Total Pages586
LanguageSanskrit
ClassificationManuscript & agam_acharang
File Size38 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy